________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४ श्रीशारीरकमीमांसामान्ये
[म. १. न्त्यषिोऽहरह्न आपूर्यमाणपक्षम्"इत्यारभ्य"चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते" इत्यन्तेनोपदिशति । अतोऽप्ययमक्षिपुरुषः परमात्मा ॥१७॥ अनवस्थितेरसम्भवाच्च नेतरः।१।२।१८॥
__ प्रतिबिम्बादीनामक्षिणि नियमेनानवस्थानादमृतत्वादीनां च निरुपाधिकानां तेष्वसम्भवान्न परमात्मन इतरः छायादिः अक्षिपुरुषो भवितुमर्हति । प्रतिबिम्बस्य तावत्पुरुषान्तरसन्निधानायत्तत्वान्न नियमेनावस्थानसम्भवः । जीवस्यापि सर्वेन्द्रियव्यापारानुगुणत्वाय सर्वेन्द्रियकन्दभूते स्थानविशेषे वृत्तिरिति चक्षुषि नावस्थानम् । देवतायाश्चर "रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः" इति रश्मिद्वारेणावस्थानवचनाद्देशान्तरावस्थितस्यापीन्द्रियाधिष्ठानोपपत्तेन चक्षुष्यवस्थानम् । सर्वेषामेवैषां निरुपाधिकामृतत्वादयो न सम्भवन्त्येव । तस्मादक्षिपुरुषः परमात्मा ।
इति श्रीशारीरकमीमांसाभाष्ये अन्तराधिकरणम् ॥ ३ ॥
---(वेदान्तसारे अन्तराधिकरणम् ॥ ३ ॥)-..
अन्तर उपपत्तेः।१।२।१३॥ ३“य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमभयमेतब्रह्म" इत्यत्र अक्ष्याधारः परमपुरुषः, निरुपाधिकामृतत्वाभयत्वसंयद्वामत्वादीनामस्मिन्नेवोपपत्तेः ॥१३॥
स्थानादिव्यपदेशाच्च । १।२।१४॥ ४" यश्चक्षुषि तिष्ठन्" इत्यादिना स्थितिनियमनादिव्यपदेशाचायं परः॥ १. छा. ४.१५-५॥
३. छा, ४-१५.१॥ २. 1. ७.५-१०॥
। ४. इ. ५-७-१८॥
For Private And Personal Use Only