SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा.२.] अन्तराधिकरणम्. २५३ ____ अस्यायमभिप्राय:--न तावत्याणादिप्रतीकोपासनमग्निभिरभिहितम् , जन्मजरामरणादिभवभयभीतस्य मुमुक्षोर्ब्रह्मोपदेशाय प्रत्तत्वात् । अतो ब्रह्मैवोपास्यमुपदिष्टम् । तत्र प्रसिद्धैः प्राणादिभिस्समानाधिकरणं ब्रह्म निर्दिष्टम् । तेषु च भाणविशिष्टत्वं जगद्विधरणयोगेन वा प्राणशरीरतया प्राणस्य नियन्तृत्वेन वा ब्रह्मण उपपद्यत इति "विजानाम्यहं यत्माणो ब्रह्म" इत्युक्तवान् । तथा सुखाकाशयोरपि ब्रह्मणः शरीरतया तनियाम्यत्वेन विशेषणत्वम् ; उतान्योन्यव्यवच्छदेकतया निरतिशयानन्दरूपब्रह्मस्वरूपसमर्पणपरत्वेन वा तत्र पृथग्भूतयोश्शरीरतया विशेषणत्वे वैषयिकसुखभूताकाशयोर्नियामकत्वं ब्रह्मणस्स्यादिति खरूपावगतिन स्यात् , अन्योन्यव्यवच्छेदकत्वेऽपरिच्छिन्नानन्दैकस्वरूपत्वं ब्रह्मणस्स्यादित्यन्यतरप्रकारनिर्दिधारयिषया "कं च तु खं च न विजानामि" इत्युक्तवान् । उपकोसलस्येममाशयं जानन्तोऽग्नयः १“यद्वा व के तदेव खं यदेव खं तदेव कम्" इत्यूचिरे। ब्रह्मणस्सुखरूपत्वमेवापरिच्छिन्नमित्यर्थः । अतः प्राणशरीरतया प्राणविशिष्टं यद्ब्रह्म, तदेवापरिच्छिन्नसुखरूपं चेति निगमितम् ---१“प्राणं च हास्मै तदाकाशं चोचुः" इति । अतः १"कं ब्रह्म खं ब्रह्म" इत्यत्रापरिच्छिन्नसुखं ब्रह्म प्रतिपादितमिति परं ब्रह्मैव तत्र प्रकृतम् , तदेव चात्राक्ष्याधारतयाऽभिधीयत इत्यक्ष्याधारः परमात्मा ॥ १६ ॥ श्रुतोपनिषत्कगत्यभिधानाच्च। १।२।१७॥ श्रुतोपनिषत्कस्य-अधिगतपरमपुरुषयाथात्म्यस्यानुसन्धेयतया श्रुत्यन्तरप्रतिपाद्यमाना अचिरादिका गतिर्या, तामपुनरावृत्तिलक्षणपरमपुरुषप्राप्तिकरीमुपकोसलायाक्षिपुरुषं श्रुतवते २"तेऽर्चिपमेवाभिसम्भव१. छा. ४-१०-५॥ २. छा. ४-१५-५॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy