________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५२ श्रीशारीरकमीमांसाभाष्ये
[म. १. तिं वक्ता" इत्यस्यायमभिप्रायः ब्रह्मविद्यामनुपदिश्य मोषुषि गुरौ तदलाभादनाश्वासमुपकोसलमुज्जीवयितुं स्वपरिचरणप्रीता गार्हपत्यादयो गुरोरग्रयस्तस्मै ब्रह्मस्वरूपमात्रं तदङ्गभूतां चाग्निविद्यामुपदिश्य “आचायोद्धैव विद्या विदिता साधिष्ठं प्रापत्" इति श्रुत्यर्थमालांच्य साधुतमत्वप्राप्तयर्थमाचार्य एवास्य संयद्वामत्वादिगुणकं ब्रह्म तदुपासनस्थानमचिरादिकां च गतिमुपदिशत्विति मत्वा २ “आचार्यस्तु ते गतिं वक्ता" इत्यवोचन् । गतिग्रहणमुपदेश्यविद्याशेषप्रदर्शनार्थम् । अत एवाचार्योsपि३ "अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते" इत्युपक्रम्य संयद्वामत्वादिकल्याणगुणविशिष्टं ब्रह्माक्षिस्थानोपास्यमर्चिरादिकां च गतिमुपदिदेश । अतः ४"कं ब्रह्म खं ब्रह्म" इति सुखविशिष्टस्य प्रकृतस्यैव ब्रह्मणोऽत्राभिधानादयमक्ष्याधारः परमात्मा ॥ १५ ॥
___ ननु च४"कं ब्रह्म खं ब्रह्म" इति परं ब्रह्माभिहितमिति कथमवगम्यते, यस्येहाक्ष्याधारतयाऽभिधानं ब्रूषे ; यावता ४"कं ब्रह्म खं ब्रह्म" इति प्रसिद्धाकाशलौकिकसुखयोरेव ब्रह्मदृष्टिविधीयत इति प्रतिभाति,५"नाम ब्रह्म'६"मनो ब्रह्म" इत्यादिवचनसारूप्यात्। तत्राह--
अत एव च स ब्रह्म।१।२।१६॥
यतस्तत्र "यदेव कं तदेव खम्"इति सुखविशिष्टस्याऽकाशस्याभिधानम् , अत एव खशब्दाभिधेयस्सः आकाशः परं ब्रह्म। एतदुक्तं भवति-अग्निभिः४"प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इत्युक्ते उपकोसल उवाच "विजानाम्यहं यत्माणो ब्रह्म कं च तु खं च न विजानामि" इति।। १. छा, ४-९-३॥ २. छा. ४-१४-१॥ ६. छा. ७-३-२॥ ३. छा. ४-१४-३॥ ४. छा. ४-१०-५॥ ७, ८, छा. ४-१०-५॥ ५. छा. ७.१.५॥
For Private And Personal Use Only