SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] अन्तराधिकरणम् २५१ ३ चार्यस्तु ते गतिं वक्ता" इत्यग्निवचनाच्च गत्युपदेशात्पूर्व ब्रह्मविद्याया असमाप्तेस्तन्मध्यगताग्निविद्या ब्रह्मविद्याङ्गमिति निश्चीयते ; "अथ हैनं गार्हपत्योऽनुशशास " इति ब्रह्मविद्याधिकृतस्यैवाग्निविद्योपदेशाच्च । कि श्च २" व्याधिभिः प्रतिपूर्णोऽस्मि ” इति ब्रह्मप्राप्तिव्यतिरिक्तनानाविधकामोपहतिपूर्वक गर्भजन्मजरामरणादिभव भयोपतप्तायोपकोसलाय ४" एषा सोम्य तेऽस्मद्विद्याऽऽत्मविद्या च "इति समुच्चित्योपदेशान्मोक्षैकफलात्मविद्याङ्गत्वमग्निविद्यायाः प्रतीयते । एवं चाङ्गत्वेऽवगते सति फलानुकीर्तनमर्थवाद इति गम्यते । नचात्र मोक्षविरोधिफलं किञ्चिच्छ्रयते, "अपहते पापकृत्यां लोकी भवति सर्वमायुरेति ज्योग्जीवति नास्यावर पुरुषाः क्षीयन्ते उप वयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिश्च" इत्यमीषां फलानां मोक्षाधिकृतस्यानुगुणत्वात् । अपहते पापकृत्याम् - ब्रह्मप्राप्तिविरोधि पापं कर्मापहन्ति । लोकी भवति तद्विरोधिनि पापे निरस्ते ब्रह्मलोकं प्राप्नोति । सर्वमायुरेति - ब्रह्मोपासनसमाप्तेर्यावदायुरपेक्षितम्, तत्सर्वमेति । ज्योग्जीवति - व्याध्यादिभिरनुपहतो यावद्ब्रह्ममाप्ति जीवति । नास्यावर पुरुषाः क्षीयन्ते - अस्य शिष्यप्रशिष्यादयः पुत्रपौत्रादयोऽपि ब्रह्मविद एव भवन्ति । ६" नास्याब्रह्मवित्कुले भवति" इति च श्रुत्यन्तरे ब्रह्मविद्याफलत्वेन श्रूयते। उप वयन्तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिश्च-वयम् अग्नयस्तमेन - मुपभुञ्जाम: - यावद्रह्मप्राप्ति विघ्नेभ्यः परिपालयाम इति । अतोऽग्निविद्याया ब्रह्मविद्याङ्गत्वेन तत्सन्निधानाविरोधात्सुखविशिष्टं प्रकृतमेव ब्रह्मोपासनस्थानविधानार्थं गुणविधानार्थं चोच्यते । ननु “आचार्यस्तु ते गतिं वक्ता" इति गतिमात्रपरिशेषणादाचार्येण गतिरेवोपदेश्येति गम्यते ; तत्कथं स्थानगुणविध्यर्थतोच्यते । तदभिधीयते "आचार्यस्तु ते ग १. छा. ४-११-१ ॥ २. छा. ४. १०.३ ॥ ३. भयाभि पा॥ ४. छा. ४. १४.१ ॥ Acharya Shri Kailassagarsuri Gyanmandir ५. छा. ४-१३-२ ॥ ६. मु. ३-२-९ ॥ ७. ब्रह्म इहोपासनस्थान पा|| ८. छा. ४-५-९॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy