________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
श्रीशारीरकमीमांसाभाष्ये
[अ.१. ष्ठो देवताविशेषो वा; एष्वेव प्रसिद्धवनिर्देशोपपत्तरेषामन्यतमः
इति प्राप्ते प्रचक्ष्महे-अन्तर उपपत्तेः-अक्ष्यन्तरः परमात्मा । कुतः? १“एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति एतं संयताम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति एष उ एव वामनिः । एष हि सर्वाणि वामानि नयति । एष उ एव भामनिः। एष हि सर्वेषु लोकेषु भाति" इत्येषां गुणानां परमात्मन्येवोपपत्तेः॥ १३ ॥
स्थानादिव्यपदेशाच्च।१।२।१४॥
चक्षुषि स्थितिनियमनादयः परमात्मन एव २“यश्चक्षुषि तिष्ठन्" इत्येवमादौ व्यपदिश्यन्ते । अतश्च३ “य एषोऽक्षिणि पुरुषः" इति स एव प्रतीयते । अतः प्रसिद्धवनिर्देशश्च परमात्मन्युपपद्यते । तत एव 'दृश्यते' इति साक्षात्कारव्यपदेशोऽपि योगिभिदृश्यमानत्वादुपपद्यते ॥१४॥
सुखविशिष्टाभिधानादेव च।१।२।१५॥
इतश्चाक्ष्याधारः पुरुषोत्तमः-४ "कं ब्रह्म खं ब्रह्म" इति प्रकृतस्य सुखविशिष्टस्य ब्रह्मणः उपासनस्थानविधानार्थ संयद्वामत्वादिगुणविधानार्थं च ३“य एषोऽक्षिणि पुरुषः" इत्यभिधानात् । एवकारो नैरपेक्ष्यं हेतो?तयति ॥
नन्वग्निविद्याव्यवधानात् ४"कं ब्रह्म" इति प्रकृतं ब्रह्म नेह सन्निधत्ते। तथा हि-अग्नयः४" प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म" इति ब्रह्मविद्यामुपदिश्य५“अथ हैनं गार्हपत्योऽनुशशास" इत्यारभ्यानीनामुपासनमुपदिदिशुः। नचाग्निविद्या ब्रह्मविद्याङ्गमिति शक्यं वक्तुम् ; ब्रह्मविद्याफलानन्तर्गततद्विरोधिसर्वायु:माप्तिसन्तत्यविच्छेदादिफलश्रवणात्। उच्यते-४"प्राणो ब्रह्म" "एतदमृतमभयमेतद्ब्रह्म" इत्युभयन ब्रह्मसंशब्दनात् ।६"आ१. छा. ४-१५-३॥ २. बू. ५-७-१८॥ ५. छा. ४-११-१॥ ३. छा. ४-१५-१॥ ४. छा, ४-१०-५॥ ६. छा. ४-१४-२॥
For Private And Personal Use Only