SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. २. ] अन्तराधिकरणम् २४९ परमात्मैव तत्र प्रतीयत इत्यर्थः । स्वयमननतोऽपि परमात्मनः प्रयोजकतया पानेऽन्वयो विद्यते । जीवद्वितीयः परमात्मेति कथमवगम्यते ? तद्दर्शनात्-तयोरेव ह्यस्मिन्प्रकरणे गुहाप्रवेशव्यपदेशो दृश्यते - १" तं दुर्दर्श गूढ मनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति" इति परमात्मनः; २' या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रषिश्य तिष्ठन्ती या भूतेभिर्व्यजायत” इति जीवस्य । कर्मफलान्यत्तीत्यदितिः जीवः ॥ ११ ॥ विशेषणाच्च । १ । २ । १२ ॥ Acharya Shri Kailassagarsuri Gyanmandir अस्मिन्प्रकरणे ह्युपक्रमप्रभृत्योपसंहाराज्जीव परमात्मानावेवोपास्यत्वोपासकत्वप्राप्यत्वप्रात्पृत्वादिभिर्विशेष्येते ३" महान्तं विभुमात्मानं मत्वा धीरो न शोचति " ४" विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्यादिषु ; अतश्चात्ता परमात्मा ॥ १२ ॥ इति श्रीवेदान्तदीपे अलधिकरणम् ॥ २ ॥ ( श्रीशारीरकमीमांसाभाष्ये अन्तराधिकरणम् || ३ ॥ ) - अन्तर उपपत्तेः । १ । २ ॥१३॥ ५ इदमामनन्ति च्छन्दोगाः ६" य एषोऽक्षिणि पुरुषो दृश्यते । एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्म" इति । तत्र सन्देहः - किमयमक्ष्याधारतया निर्दिश्यमानः पुरुषः प्रतिबिम्बात्मा, उत चक्षुरिन्द्रियाधिष्ठाता देवताविशेषः, उत जीवात्मा, अथ परमात्मा - इति । किं युक्तम् १ प्रतिविम्बात्मेति । कुतः ? प्रसिद्धवनिर्देशात् ; 'दृश्यते' इत्यपरोक्षाभिधानाच्च । जीवात्मा वा, तस्यापि हि चक्षुषि विशेषेण सन्निधानात्प्रसिद्धिरुपपद्यते। उन्मीलितं हि चक्षुरुद्वीक्ष्य जीवात्मनश्शरीरे स्थितिगती निश्चिन्वन्ति । ७" रश्मिभिरेषोऽस्मिन्मतिष्ठितः” इति श्रुतिप्रसिद्ध्या चक्षुःप्रति १. कठ. १-२-१२॥ २. कठ. २-४-७॥ ३. कठ. १-२-२२॥ ४. कठ. १-३-९॥ ५. इदं समामनन्ति पा || 32 ६. छा. ४-१५-१॥ ७. बृ. ७-५-१॥ ८. श्रुतिप्रसिद्ध पा ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy