________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८ वेदान्तदीपे
[अ. १. सदा पश्यन्ति सूरयः"१"तदक्षरे परमे व्योमन्"२ "क्षयन्तमस्य रजसः पराके" ३"विश्वं पुराणं तमसः परस्तात्" ४"ते ह नाकं महिमानस्सचन्ते। यत्र पूर्वे साध्यास्सन्ति देवाः" इत्यादिसकलोपनिषत्प्रसिद्धम् ॥ १२॥
इति श्रीवेदान्तसारे अनधिकरणम् ॥ २ ॥
२
॥
...(श्रीवेदान्तदीपे अत्रधिकरणम् ॥ २॥).-..
अत्ता चराचरग्रहणात्।।२।९॥ कठवल्लीष्वाम्नायते५“यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति । अत्रौदनोपसेचनसूचितोऽत्ता किं जीवः ? उत परमात्मेति संशयः । जीव इति पूर्वः पक्षः । कुतः ? भोक्तृत्वस्य कर्मनिमित्तत्वात् , जीवस्यैव तत्सम्भवात् । राद्धान्तस्तु-सर्वोपसंहारे मृत्यूपसेचनमदनीयं चराचरात्मकं कृत्स्नं जगदिति तस्यैतस्यात्ता परमात्मैव। न चे. दं कर्मनिमित्तं भोक्तृत्वम् , अपि तु जगत्सृष्टिस्थितिलयलीलस्य परमात्मनो जगदुपसंहारित्वरूपं भोक्तृत्वम् । सूत्रार्थ:-ब्रह्मक्षत्रौदनस्यात्ता परमात्मा, ब्र. नक्षत्रशब्देन चराचरस्य कृत्स्नस्य जगतो ग्रहणात् । मृत्यूपसेचनो ह्योदनो न ब्रह्मक्षत्रमात्रम् ; अपि तु तदुपलक्षितं चराचरात्मकं कृत्स्नं जगदेव ॥ ९॥
प्रकरणाच्च। १॥२॥१०॥ ६"महान्तं विभुमात्मानं मत्वा धीरो न शोचति' ६"नायमात्मा प्रवचनेन लभ्यो न मेधया" इति परस्यैव हीदं प्रकरणम् ; अतश्चायं परमात्मा ॥ १० ॥ गुहां प्रविष्टावात्मानौ हि तदर्शनात् ।।२।११॥
नन्वनन्तरम् ७"ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें" इति द्वयोः कर्मफलादनश्रवणात् , परमात्मनश्च कर्मफलादनानन्वयात् ,अन्तःकरणद्वितीयो जीव एव तत्रात्तेति प्रतीयते ; अतोऽत्रापि स एव जीवोऽत्ता भवितुमर्हतीत्याशङ्कयाह-गुहां प्रविष्टौ जीवात्मपरमात्मानौ ; जीवद्वितीयः १.ते.नारा, ६-२॥ २.सामवे.उत्तर.१७-२-२॥ ६. कठ. १-२-२२, २३ ॥ ३. ते. नारा, ६-५॥ ४. पुरुषसू॥ | ७. कठ. १-३-१॥ ५. कठ. १-२-२५॥
For Private And Personal Use Only