________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.
अप्रधिकरणम् . ......(श्रीवेदान्तसारे अत्त्रधिकरणम् ।। २ ॥)..-..
अत्ता चराचरग्रहणात् । १।२।९॥ १“यस्य ब्रह्म च क्षत्रश्चोभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः' इत्यत्र ओदनोपसेचनसूचितोऽत्ता परमपुरुषः, ब्रह्मक्षत्रोपलक्षितस्य चराचरस्य कृत्स्नस्य मृत्यूपसेचनत्वेन अदनीयतया ग्रहणात् ॥९॥
प्रकरणाच्च।१।२।१०॥ २"महान्तं विभुमात्मानं मत्वा धीरो न शोचति" ३"नायमात्मा प्रवचनेन लभ्यः" इत्यादिना परस्यैव प्रकृतत्वात् स एवायम् ॥ १०॥ गुहां प्रविष्टावात्मानौ हि तदर्शनात्। १॥२॥११॥
अनन्तरम् ४'ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें " इत्यादिना जीवपरमात्मानावेव प्रयोज्यप्रयोजकभावेन कर्मफलाशनेऽन्वयादु. पदिष्टौ, तयोरेवास्मिन् प्रकरणे गुहाप्रवेशदर्शनात् ; ५"तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितम्" इति परस्य, ६"या प्राणेन सम्भत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती" इति जीवस्य । कर्मफलादनाददितिर्जीवः ॥ ११ ॥
विशेषणाच्च। १।२।१२॥ जीवपरावेव हि सर्वत्रास्मिन्प्रकरणे विशेष्येते, ७" न जायते म्रियते वा विपश्चित्" इत्यादौ जीवः ८" अणोरणीयान् महतो महीयान्" २ "महान्तं विभुमात्मानम्"३"नायमात्मा प्रवचनेन""विज्ञानसारथिर्यस्तु मनःप्रग्रहवानरः। सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्" इत्यादिषु परः। १०"त्रिपादस्या. मृतं दिवि" ११“अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषु उत्तमेषु लोकेषु" इति विश्वतः प्राकृतात् स्थानात् परं विष्णोः परस्थानमेव हि संसाराध्वनः पारभूतं मुमुक्षुभिः प्राप्यम् १०" परमं पदं. १. कठ. १-२-२५॥
७. कठ. १-२-१८ ॥ २. कठ. १-२-२२, ॥
८. कठ, १-२-२०॥ ३. कठ. १-२-२३॥ ४. कठ. १-३-१॥ ९. कठ. १-३-९॥ १०. पुरपसू ॥ ५, कठ. १-२-१२ ॥ ६, कठ, २-४-७॥ ११. छा. ३-१३-७॥
For Private And Personal Use Only