________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६ श्रीशारीरकमीमांसामाग्ये
[भ. १. विनिर्मोक्षाभिप्रायम्। यथा ?"न प्रेत्य संज्ञाऽस्ति" इति । अयमर्थः-मोक्षाधिकृते मनुष्ये प्रेते सर्वबन्धविनिर्मुक्ते तत्स्वरूपविषया वादिविप्रतिपत्तिनिमित्ताऽस्तिनास्त्यात्मिका येयं विचिकित्सा, तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वयाऽनुशिष्टोऽहं विद्यां-जानीयाम्-इति । तथा हि बहुधा विप्रतिपद्यन्ते-केचिद्वित्तिमात्रस्याऽत्मनस्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्ये वित्तिमात्रस्यैव सतोऽविद्यास्तमयम् । अपरे-पाषाणकल्पस्याऽत्मनो ज्ञानावशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरे तु- अपहतपाप्मानं परमात्मानमभ्युपगच्छन्तस्तस्यैवोपाधिसंसर्गनिमित्तजीवभावस्योपाध्यपगमेन तद्भावलक्षणं मोक्षमातिष्ठन्ते । त्रय्यन्तनिष्णातास्तु-निखिलजगदेककारणस्याशेषहेयप्रत्यनीकानन्तज्ञानानन्दैकस्वरूपस्य स्वाभाविकानवधिकातिशयासङ्खयेयकल्याणगुणाकरस्य सकलेतरविलक्षणस्य सर्वात्मभूतस्य परस्य ब्रह्मणशरीरतया प्रकारभूतस्यानुकूलापरिच्छिन्नज्ञानस्वरूपस्य परमात्मानुभवैकरसस्य जीवस्यानादिकर्मरूपाविद्यातिरोहितस्वरूपस्याविद्योच्छेदपूर्वकस्वाभाविकपरमात्मा - नुभवमेव मोक्षमाचक्षते । तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादाविद्यामिति नचिकेतसा पृष्टो मृत्युस्तस्यार्थस्य दुरवबोधत्वप्रदर्शनेन विविधभोगवितरणप्रलोभनेन चैनं परीक्ष्य योग्यतामभिज्ञाय परावरात्मतत्त्वविज्ञानं परमात्मोपासनं तत्पदप्राप्तिलक्षणं मोक्षं च २"तं दुर्दर्श गूढमनुपविष्टम्"इत्यारभ्य ३"सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्" इत्यन्तेनोपदिश्य तदपेक्षितांश्च विशेषानुपदिदेशेति सर्व समञ्जसम्। अतः परमात्मैवात्तेति सिद्धम् ॥ १२ ॥
इति श्रीशारीरकमीमांसाभाष्ये अत्त्रधिकरणम् ॥ २ ॥
३. कठ, १-३.९ ॥
१.१.४-४-१२ २, कठ, १-२-१२॥
For Private And Personal Use Only