________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४५
पा. २.]
अअधिकरणम् . विद्धि शरीरं रथमेव च" इत्यादिनोपासको जीव उच्यते । तथा १"विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्" इति प्राप्यप्राप्तारावभिधीयेते जीवपरमात्मानौ । इहापि २"छायातपौ" इत्यज्ञत्वसर्वज्ञत्वाभ्यां तावेव विशिष्य व्यपदिश्यते ॥
अथ स्यात् ३"येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके" इति जीवस्वरूपयाथात्म्यप्रश्नोपक्रमत्वात्सर्वमिदं प्रकरणं जीवपरमिति प्रतीयते इति । नैतदेवम् , न हि जीवस्य देहातिरिक्तस्यास्तित्वनास्तित्वशङ्कयाऽयं प्रश्नः, तथा सति पूर्ववरद्वयवरणानुपपत्तेः। तथा हि पितुस्सर्ववेदसदक्षिणक्रतुसमाप्तिवेलायां दीयमानदक्षिणावैगुण्येन क्रतुवैगुण्यं मन्यमानेन कुमारेण नचिकेतसा आस्तिकाग्रेसरेण खात्मदानेनापि पितुः ऋतुसाद्गण्यमिच्छता ४“कस्मै मां दास्यसि" इत्यसकृत्पितरं पृष्टवता स्वनिर्बन्धरुष्टपितृवचनान्मृत्युसदनं प्रविष्टेन स्वसदनालोषुषि यमे तददर्शनात्तत्र तिस्रो रात्रीरुपोषुषा स्वोपवासभीततत्पतिविधानप्रवृत्तमृत्युप्रदत्ते वरत्रये आस्तिक्यातिरेकात्पथमेन वरेण स्वात्मानं प्रति पितुः प्रसादो वृतः। एतच्च सर्व देहातिरिक्तमात्मानमजानतो नोपपद्यते । द्वितीयेन च वरेणोत्तीर्णदेहात्मानुभाव्यफलसाधनभूताऽग्निविद्या वृता; तदपि देहातिरिक्तात्मानभिज्ञस्य न सम्भवति । अतस्तृ. तीयेन वरेण यदिदं वियते ३"येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः" इतिः अत्र परमपुरुषार्थरूपब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्त्वजिज्ञासयाऽयं प्रश्नः क्रियते । एवं च ३"येयं प्रेते" इति न शरीरवियोगमात्राभिमायम् अपि तु सर्वबन्ध
१. कठ. १-३-९ ॥ २. कठ. १-३-१॥
३. कठ. १-१-२०॥ ४. कठ.१.१.४॥
For Private And Personal Use Only