________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४ भीशारीरकमीमांसाभाष्ये [अ १. गुहां प्रविष्टावात्मानौ हि तदर्शनात्। १।२।११॥
न प्राणजीवी बुद्धिजीवौ वा गुहां प्रविष्टावृतं पिबन्तावित्युच्येते; अपि तु जीवपरमात्मानौ हि तथा व्यपदिश्यते । कुतः? तदर्शनात्। अस्मिन् प्रकरणे जीवपरयोरेव गुहाप्रवेशव्यपदेशो दृश्यते । परमात्मनस्तावत् १"तं दुर्दर्श गूढमनुपविष्टं गुहाहितं गहरेष्ठं पुराणम्। अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति" इति । जीवस्यापि २“या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत" इति । कर्मफलान्यत्तीत्यदिति व उच्यते । प्राणेन सम्भवतिप्राणेन सह वर्तते । देवतामयी-इन्द्रियाधीनभोगा । गुहां प्रविश्य तिष्ठन्ती-हृदयपुण्डरीकोदरवर्तिनी । भूतेभिर्व्यजायत-पृथिव्यादिभिभूतैस्सहिता देवादिरूपेण विविधा जायते । एवं च सति ३"ऋतं पिबन्तौ" इति व्यपदेशः 'छत्रिणो गच्छन्ति' इति वत्प्रतिपत्तव्यः । यद्वा-प्रयोज्यप्रयोजकरूपेण पाने कर्तृत्वं जीवपरयोरुपपद्यते ॥ ११ ॥
विशेषणाच्च। १।२।१२॥ अस्मिन् प्रकरणे जीवपरमात्मानावेवोपास्यत्वोपासकत्वमाप्यत्वमामृत्वविशिष्टौ सर्वत्र प्रतिपाद्यते। तथाहि-४"ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमा शान्तिमत्यन्तमेति" इति । ब्रह्मजज्ञो जीवः, ब्रह्मणो जातत्वात् ज्ञत्वाच्च । तं देवमीड्यं विदित्वा-जीवात्मानमुपासकं ब्रह्मात्मकत्वेनावगम्येत्यर्थः । तथा ५“यस्सेतुरीजानानामक्षरं ब्रह्म यत्परम् । अभयं तितीर्षतां पारं नाचिकेतं शकेमहि" इत्युपास्यः परमात्मोच्यते । नाचिकतम्-नाचिकेतस्य कर्मणः प्राप्यमित्यर्थः । ६“आत्मानं रथिनं १. कठ. १-२-१२॥
४. कठ. १-१-१७ ॥ २. कठ. २-४-७॥
५. कठ. १-३-२ ॥ ३. कठ, १-३-१॥
६. कठ. १-३-३ ॥
For Private And Personal Use Only