________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. २. ]
अधिकरणम्.
૨૪૨
स्य ब्रह्मणो विष्णोस्संहर्तृत्वम् ; १" सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम्" इत्यत्रैव दर्शनात् । तथा च २" मृत्युर्यस्योपसेचनम्" इति वचनात्, २" ब्रह्म च क्षत्रं च " इति कृत्स्नं चराचरं जगदिहादनीयौदनत्वेन गृह्यते । उपसेचनं हि नाम स्वयमद्यमानं सदन्यस्यादनहेतुः । अत उपसेचनत्वेन मृत्योरप्यद्यमानत्वात्तदुपसिच्यमानस्य कृत्स्नस्य ब्रह्मक्षत्रपूर्वकस्य जगतश्चराचरस्यादनमत्र विवक्षितमिति गम्यते । ईदृशं चादनमुपसंहार एव । तस्मादीदृशं जगदुपसंहारित्वरूपं भोक्तृत्वं परमात्मन एव ॥ ९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणाच्च । १ । २।१० ॥ ।
प्रकरणं चेदं परस्यैव ब्रह्मणः - ३ " महान्तं विभुमात्मानं मत्वा धीरो न शोचति " ३" नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विछृणुते तनूं स्वाम्” इ ति हि प्रकृतम् । २" क इत्था वेद यत्र सः" इत्यपि हि तत्प्रसादाहते तस्य दुरवबोधत्वमेव पूर्वप्रस्तुतं प्रत्यभिज्ञायते ॥ १० ॥
१. कठ. १-३-९॥
२. कठ. १-२-२५ ॥
अथ स्यात् - नायं ब्रह्मक्षत्रौदनसूचितः पुरुषोऽपहतपाप्मा परमात्मा;अनन्तरम् ४"ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परायें । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः " इति कर्मफलभोक्तुरेव सद्वितीयस्याभिधानात् । द्वितीयश्च प्राणो बुद्धिर्वा स्यात् । ऋतपानं हि कर्मफलभोग एव ; स च परमात्मनो न सम्भवति, बुद्धिप्राणयोस्तु भोक्तुर्जीवस्योपकरणभूतयोर्यथा कथञ्चित्पानेSन्वयस्सम्भवतीति तयोरन्यतरेण सद्वितीयो जीव एव प्रतिपाद्यते, तदेकमकरणत्वात्पूर्व प्रस्तुतोऽत्ताऽपि स एव भवितुमर्हति - इति । तत्त्रोच्यते
३. कठ. १-२-२२-२३ ॥
४. कठ, १-३-१॥
For Private And Personal Use Only