________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४२
श्रीशारीरकमीमांसाभाष्ये
[अ. १.
स्यत्वाद्धेतोरल्पायतनत्वात्पत्वव्यपदेशः न स्वरूपाल्पत्वेन, १" ज्यायान्पृथिव्याः” इत्यादिना सर्वस्माज थायस्त्वोपदेशात् । ज्यायसोऽप्यस्य हृदयायतनावच्छेदेनाल्पत्वानुसन्धानमुपपद्यते । व्योमवत् - यथा महतोऽपि व्योम्नस्सूचीपथादिष्वल्पत्वानुसन्धानम्। चशब्दो ऽवधारणे । तद्वदेवेत्यर्थः । २स्वाभाविकं चास्य महत्त्वमत्राभिधीयत इत्यर्थः । १" ज्यायान्पृथिव्याः ज्यायानन्तरिक्षाज्जयायान्दिवो ज्यायानेभ्यो लोकेम्यः" इति ह्यनन्तरमेवोपदिश्यते ॥ ७ ॥
सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् । १।२।८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यद्युपासकशरीरे हृदयेऽयमपि वर्तते ; ततस्तद्वदेवास्यापि शरीरप्रयुक्तसुखदुःखसम्भोगप्राप्तिरिति चेन्न हेतुवैशेष्यात् । न हि शरीरान्तर्वर्तित्वमात्रमेव सुखदुःखोपभोगहेतुः ; अपि तु कर्मपरवशत्वम् ; तत्त्वपहतपाप्मनः परमात्मनो न सम्भवति ॥ ८ ॥
इति श्रीवेदान्तदीपे सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥
( श्रीशारीरकमीमांसाभाष्ये अत्यधिकरणम् ॥ २॥) ---
यदि परमात्मा न भोक्ता, एवं तर्हि सर्वत्र भोक्तृतया प्रतीयमा नो जीव एव स्यादित्याशङ्कयाह
अत्ता चराचरग्रहणात् । १।२ ।९ ॥
कठवल्लीवाम्नायते ३" यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः" इति । अत्रौदनोपसेचनसूचितोता किं जीव एव, उत परमात्मेति सन्दिह्यते । किं युक्तम् ? जीव इति । कुतः ? भोक्तृत्वस्य कर्मनिमित्तत्वाज्जीवस्यैव तत्सम्भवात् ॥
अनोच्यते-अत्ता चराचरग्रहणात् - अत्ता परमात्मैव । कुतः ? चराचरग्रहणात् चराचरस्य कृत्स्नस्यात्तृत्वं हि तस्यैव सम्भवति । न चेदं कर्मनिमित्तभोक्तृत्वम् अपि तु जगज्जन्मस्थितिलय हेतुभूतस्य पर
१. छा. ३. १४. ३ ॥
२. ग्योमवच्चायं व्यपदिश्यते स्वाभाविकं पा । ३. कठ. १-२-२५ ॥
For Private And Personal Use Only