________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. २. ]
सर्वत्रप्रसिद्ध्यधिकरणम्.
२४१
प्रसिद्धोपदेशात्; १" तजलान्" इति 'सर्वमिदं ब्रह्म खलु' इति प्रसिद्ध वत्तस्योपदेशात्, सर्वात्मकत्वस्योपदेशाच्च । तदेव हि जगज्जन्मस्थितिलयहेतुत्वेन वेदातेषु प्रसिद्धम् ॥ १ ॥
द्यन्ते ॥ २ ॥
विवक्षितगुणेोपपत्तेश्च । १।२।२॥
मनोमयत्वादिकास्सत्यसङ्कल्पत्वमिश्रा विवक्षिता गुणाः परस्मिन्नेवोपप
Acharya Shri Kailassagarsuri Gyanmandir
अनुपपत्तेस्तु न शारीरः । १।२।३॥
एतेषां गुणनाम् अनन्तदुःखमिश्रपरिमित सुखलवभागिनि अझै कर्मपरवशे शारीरे प्रत्यगात्मन्यनुपपत्तेश्चायं न शारीरः, अपि तु परमेव ब्रह्म ॥ ३ ॥
कर्मकर्तृव्यपदेशाच्च । १।२४॥
२" एतमितः प्रेत्याभिसम्भविताऽस्मि" इति प्राप्यतयोपास्यो निर्दिश्यते; प्राप्तृतया च जीवः । अतश्च जीवादन्यदेवेदं परं ब्रह्म ॥ ४ ॥
शब्दविशेषात् । १ । २।५ ॥
३" एष म आत्माऽन्तर्हृदये" इति शारीरषष्ठया निर्दिष्टः, उपास्यः प्रथमया । अतश्च जीवादन्यः ॥ ५ ॥
स्मृतेश्च । १।२।६॥
१. छा. ३-१४ - १॥
२, छा. ३. १४. ४॥
31
४" सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च" इति स्मृतेश्च । अतश्च जीवादन्य उपास्यः परमात्मा ॥ ६ ॥
अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्यत्वादेवं व्योमवच्च । १ । २॥७॥
१" एष म आत्माऽन्तर्हृदये" इति अल्पस्थानत्वात्, १ " अणीयान्त्रीहेर्वा यवाद्वा" इत्यल्पत्वव्यपदेशाश्च न परं ब्रह्मेति चेन्न, निचाय्यत्वादेवम्, एवमुपा
३. छा. ३. १४. ३॥
४. गी. १५-१५॥
For Private And Personal Use Only