________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
---(श्रीवेदान्तदीपे सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १॥)-..
सर्वत्रप्रसिद्धोपदेशात् । १।२।१॥
छान्दोग्ये श्रूयते, १"सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत, अथ खलु क्रतुमयोऽयं पुरुषः यथा क्रतुरस्मिल्लाँके पुरुषो भवति, तथेत प्रेत्य भवति, स क्रतुं कुर्वीत मनोमयः प्राणशरीरः" इति । अत्र, १"सर्व खल्विदं ब्रह्म" इति सर्वात्मकत्वेन निर्दिष्टं ब्रह्म, किं प्रत्यगात्मा, उत परमात्मेति संशयः। प्रत्यगात्मेति पूर्वः पक्षः, सर्वत्र तादात्म्योपदेशो हि तस्यैवोपपद्यते । परस्य तु ब्रह्मणः सकलहेयप्रत्यनीककल्याणकतानस्य समस्तहेयाकारं सर्वतादात्म्यं विरोधादेव न सम्भवति । प्रत्यगात्मनो हि कर्मनिमित्तो ब्रह्मादिस्तम्बपर्यतसर्वभाव उपपद्यते । सृष्ट्यादिहेतुत्वञ्च तत्तत्कर्मनिमित्तत्वेन सृष्टयादेरुपपद्यते । ब्रह्मशब्दोऽपि बृहत्त्वगुणयोगेन २ "तस्मादेतब्रह्म नाम रूपमन्नश्च जायते" इतिवत्तत्रैव वर्तते। राद्धान्तस्तु- १"तज्जलान्" इति १"सर्व खल्विदं ब्रह्म' इति तज्जन्मस्थितिलयहेतुकं तदात्मकत्वं प्रसिद्धवनिर्दिश्यमानं परस्यैव ब्रह्मण उपपद्यते । परस्माब्रह्मण एव हि जगजन्मस्थितिलयाः प्रसिद्धाः ३"सोऽकामयत बहु स्यां प्रजायेयेति" ३" इदं सर्वमसृजत" इत्यादिषु । तथा सर्वात्मकत्वञ्च जन्मादिहेतुकं परस्यैव ब्रह्मणः प्रसिद्धम्, ४"सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः" ५“ऐतदात्म्यमिदं सर्वम्" इति । हेयप्रत्यनीककल्याणकतानात्मनश्च परस्य हेयाकरसर्वभूता. स्मत्वमविरुद्धम् । ६ “यः पृथिव्यां तिष्ठन्...यस्य पृथिवी शरीरम्" ७"य आ. स्मनि तिष्ठन्...यस्यात्मा शरीरं स त आत्माऽन्तर्याम्यमृतः" इत्यादिना शरीरात्मभावेन सर्वात्मत्वोपपादनात् ; शरीरात्मनोश्च स्वभावव्यवस्थानात् । सर्व ब्रह्मेति सामानाधिकरण्यनिर्देशश्च सर्वशब्दस्य सर्वशरीरके ब्रह्मण्येव प्रवृत्तेरुपपद्यते । शरीरवाची हि शब्दः शरीरिण्यात्मन्येव पर्यवस्यति; देवमनुष्यादिश ब्दवत् । सूत्रार्थस्तु-सर्वत्र-१"सर्व खल्विदं ब्रह्म" इति निर्दिष्टे वस्तुनि स. शब्दवाच्ये सामानाधिकरण्येन तदात्मतया निर्दिष्टं परं ब्रह्मैव । कुतः ? १. छा. ३-१४-१॥
५. छा. ६. ८. ७ ॥ २. मुण्ड, १-१-९ ॥ ३.ते. आ. ६॥
७. .. ५-७-२२ मध्यन्दिनपाठः॥ ४.ग.
For Private And Personal Use Only