SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३९ पा. २.] सर्वत्रप्रसिद्ध्यधिकरणम्. २३९ अनुपपत्तेस्तुन शरीरः । १।२।३॥ दुःखभिश्रपरिमितसुखलवभागिनि शारीरे तु एषांगुणानाम् अनुपपत्तेन शारीरोऽयम् ॥३॥ . कर्मकर्तृव्यपदेशाच्च।१॥२॥४॥ १"एतमितः प्रेत्याभिसंभविताऽस्मि"इत्यभिसंभाव्याभिसंभवितृत्वेन प्रस्तुतब्रह्मजीवयोर्व्यपदेशादभिसंभाव्यं ब्रह्म जीवादर्थान्तरम् ॥ ४॥ शब्दविशेषात् । १।२।५॥ ____२"एष म आत्माऽन्तर्हृदये" इति षष्ठया प्रथमया च जीवो ब्रह्म च व्यपदिश्यते । ततश्चार्थान्तरम् ॥ ५॥ स्मृतेश्च । १।२।६॥ अत्रापि प्रथमया निर्दिष्टः पुरुषोत्तम इति निश्चीयते। ३"सर्वस्य चाहं ह. दि सन्निविष्टः" इति हि स्मृतिः ॥६॥ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्यत्वादेवं व्योमवच्च। १॥२॥७॥ २ "एष म आत्माऽन्तर्हृदये अणीयन् बीहेः" इत्यादिना अल्पायतनत्वात्, स्वरूपाल्पत्वस्य व्यपदेशाच,नायं पर इतिचेन, उपास्यत्वाखेतोस्तथा व्यपदेशः, मतु स्वरूपाल्पत्वेनाव्योमवत्-स्वरूपमहत्वं चात्रैव व्यपदिश्यते-२"ज्यायान् पृथिव्याः ज्यायानन्तरिक्षात्" इत्यादिना ॥७॥ सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् । १।२।८॥ परोऽप्यन्तश्शरीरे वसति चेत्-जीववत् सुखदुःखोपभोगप्राप्तिस्स्यादितिचेन्न, हेतुवैशेष्यात् ; परस्य हि छन्दतो जीवरक्षायै शरीरान्तर्वासः॥ इति श्रीवेदान्तसारे सर्वत्र प्रसिद्ध्यधिकरणम् ॥ १ ॥ १. छा. ३-१४-४॥ २. छा. ३.१४.३॥ ३. गो. १५-१५ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy