________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. २.] अदृश्यत्वादिगुणकाधिकरणम्.
२६५ भूतमपरोक्षं ज्ञानम्। तच्च भक्तिरूपापन्नम् , १"यमेवैष वृणुते तेन लभ्यः" इत्यत्रैव विशेष्यमाणत्वात् । तदुपायश्चागमजन्यं विवेकादिसाधनसप्तकानुगृहीतं ज्ञानम् , २"तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति श्रुतेः। आह च भगवान्पराशरः ३"तत्माप्तिहेतुर्ज्ञानं च कर्म चोक्तं महामुने । आगमोत्थं विवेकाच द्विधा ज्ञानं तथोच्यते" इति । ४" तत्रापरा ऋग्वेदो यजुर्वेदः" इत्यादिना ४" धर्मशास्त्राणि" इत्यन्तेन आगमोत्थं ब्रह्मसाक्षात्कारहेतुभूतं परोक्षज्ञानमुक्तम् । साङ्गस्य सेतिहासपुराणस्य सधर्मशास्त्रस्य समीमांसस्य वेदस्य ब्रह्मज्ञानोत्पत्तिहेतुत्वात् ५“अथ परा यया तदक्षरमधिगम्यते" इत्युपासनाख्यं ब्रह्मसाक्षात्कारलक्षणं भक्तिरूपापन्नं ज्ञानम् “ यत्तदद्रेश्यमग्रायम्" इत्यादिना परोक्षापरोक्षरूपज्ञानद्वयविषयस्य परस्य ब्रह्मणस्वरूपमुच्यते ६“यथोर्णनाभिस्सृजते गृह्णतेच" इत्यादिना। यथोक्तस्वरूपात्परस्माद्ब्रह्मणोऽक्षरात्कृत्स्नस्य चेतनाचेतनात्मकप्रपञ्चस्योत्पत्तिरुक्ता विश्वमिति वचनानाचेतनमात्रस्य ७"तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्माणो मनस्सत्यं लोकाः कर्मसु चामृतम्" इति ब्रह्मणो विश्वोत्पत्तिप्रकार उच्यते तपसा-ज्ञानेन, “यस्य ज्ञानमयं तपः" इति वक्ष्यमाणत्वात्। चीयते-उपचीयते ९"बहु स्याम्" इति सङ्कल्परूपेण ज्ञानेन ब्रह्म सृष्टयुन्मुखं भवतीत्यर्थः। ततोऽन्नमभिजायते-अद्यत इत्यन्नम्, विश्वस्य भोक्तृवर्गस्य भोग्यभूतं भूतसूक्ष्ममव्याकृतं परस्माद्ब्रह्मणो जायत इत्यर्थः; प्राणमनःप्रभृति च स्वर्गापवर्गरूपफलसाधनभूतकर्मपर्यन्तं सर्व विकारजातं तस्मादेव जायते । ८" यस्सर्वज्ञस्सर्ववित्" इत्यादिना सृष्टयुपकरणभूतं
१. मुण्ड, ३-२-३ ॥ २. २, ६-४-२२॥ ३. वि. पु. ६-५-६० ॥ ४, ५. मुण्ड. १-१-५॥
34
६. मुण्ड. १-१-७॥ ७. मुण्ड. १-१-८॥ ८. मुण्ड. १-१-९॥ ९. छा. ६.२.३, ते. आन. ६॥
For Private And Personal Use Only