________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३५
पा. २.]
सर्वत्रप्रसिख्यधिकरणम्. च्छस्वरूपः, सकलेतरकारणभूतस्याऽकाशस्याप्यात्मभूत इति वा आकाशात्मा; स्वयं च प्रकाशते अन्यानपि प्रकाशयतीति वा आकाशात्मा । सर्वकर्मा-क्रियत इति कर्म ; सर्व जगद्यस्य कर्म, असौ सर्वकर्माः सर्वा वा किया यस्यासौ सर्वकर्मा । सर्वकाम:-काम्यन्त इति कामा:-भोग्यभोगोपकरणादयः; ते परिशुद्धाः सर्वविधास्तस्य सन्तीत्यर्थः । सर्वगन्धः सर्वरसः-१" अशब्दमस्पर्शम्"इत्यादिना प्राकृतगन्धरसादिनिषेधादप्राकृताः स्वासाधारणा निरवद्या निरतिशयाः कल्याणाः स्वभोग्यभूतास्सर्वविधा गन्धरसास्तस्य सन्तीत्यर्थः। सर्वमिदमभ्यात्तः-उक्तं रसपर्यन्तं सर्वमिदं कल्याणगुणजातं स्वीकृतवान् । 'अभ्यात्तः' इति ‘भुक्ता ब्राह्मणाः' इतिवत्कर्तरि क्तः प्रतिपत्तव्यः। अवाकी-चाकः उक्तिः; सोऽस्य नास्तीत्यवाकी । कुत इत्याह-अनादर इति-अवाप्तसमस्तकामत्वेनादर्तव्याभावादादररहितः। अत एव अवाकी-अजल्पाकः परिपूर्णैश्वयत्वाब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत्तृणीकृत्य जोषमासीन इत्यर्थः । त एते विवक्षिता गुणाः परमात्मन्येवोपपद्यन्ते ॥ २ ॥
अनुपपत्तस्तु न शारीरः।१।२।३॥
तमिमं गुणसागरं पर्यालोचयतां खद्योतकल्पस्य शरीरसम्बन्धनिबन्धनापरिमितदुःखसम्बन्धयोग्यस्य बद्धमुक्तावस्थस्य जीवस्य प्रस्तुतगुणलेशसम्बन्धगन्धोऽपि नोपपद्यत इति नास्मिन् प्रकरणे शारीरपरिग्रहशङ्का जायत इत्यर्थः ॥३॥
कर्मकर्तृव्यपदेशाच्च।१।२।४॥ २" एतमितः प्रेत्याभिसम्भविताऽस्मि" इति प्राप्यतया परं ब्रह्म व्यपदिश्यते , प्राप्ततया च जीवः । अतः प्राप्ता जीव उपासकः , प्राप्यं परं ब्रह्मोपास्यमिति प्राप्तुरन्यदेवेदमिति विज्ञायते ॥४॥ १. कठ, १.३.१५॥
२. छा. ३.१४.४ ॥
For Private And Personal Use Only