________________
Shri Mahavir Jain Aradhana Kendra
२३६
www.kobatirth.org
श्रीशारीरकमीमांसाभाष्ये
१. छा. ३-१४-३ ॥
२. शतपथब्राह्मण. १-६-३ ॥
३. गी. १५-१५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
शब्दविशेषात् ॥१२॥५॥
१" एष म आत्मान्तर्हृदये " इति शारीरष्षष्ट्या निर्दिष्टः उपास्यस्तु प्रथमया । एवं समानप्रकरणे वाजिनां च श्रुतौ शब्दविशेषयते जीवपरयोः ; यथा २" ब्रीहिर्वा यवो वा श्यामाको वा श्यामाकतडुलो वा एवमयमन्तरात्मन् पुरुषो हिरण्मयो यथा ज्योतिरधूमम् इति । अत्र २" अन्तरात्मन् " इति सप्तम्यन्तेन शारीरो निर्दिश्यते ; २" पुरुषो हिरण्मयः " इति प्रथमयोपास्यः । अतः पर एवोपास्यः ॥ इतश्च शारीरादन्यःस्मृतेश्च । १।२।६ ॥
[म. १.
३" सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोइन” ४" यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ५" ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया । तमेव शरणं गच्छ " इति शारीरमुपासक, परमात्मानं चोपास्यं स्मृतिर्दर्शयति ॥ ६ ॥
अर्भकौकस्त्वात्तद्वयपदेशाच्च नेतिचेन्न निचाय्य - त्वादेवं व्योमवच्च । १।२७॥
अल्पायतनत्वमर्भकौकस्त्वम् ; तव्यपदेशः - अल्पत्वव्यपदेशः । ६" एष म आत्माऽन्तर्हृदये" इत्यणीयसि हृदयायतने स्थितत्वात् ६" अणीयान् व्रीहेर्वा यवाद्वा" इत्यादिनाऽणीयस्त्वस्य स्वरूपेण व्यपदेशाच्च नायं
४. गी. १५-१९ ॥
५. गी. १८-६१ ॥
६. छा. ३-१४-३ ॥
For Private And Personal Use Only
19