________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
श्रीशारीरकमीमांसाभाष्ये
अ.१. शरीरगतानां दोषाणां प्रकारिण्यात्मन्यप्रसङ्गात् । प्रत्युत निरतिशयैश्वर्यापादनेन गुणायैव भवतीति पूर्वमेवोक्तम् ॥
यदुक्तं जीवस्य सर्वतादात्म्यमुपपद्यत इति । तदसत् , जीवानां प्रतिशरीरं भिन्नानामन्योन्यतादात्म्यासम्भवात् । मुक्तस्याप्यनवच्छिन्नखरूपस्यापि जगत्तादात्म्यं जगज्जन्मस्थितिप्रलयकारणत्वनिमित्तं न सम्भवतीति १“जगद्व्यापारवर्जम्" इत्यत्र वक्ष्यते । जीवकर्मनिमित्तत्वाजगज्जन्मस्थितिलयानां स एव कारणमित्यपि न साधीयः, तत्कर्मनिमित्तत्वेऽपीश्वरस्यैव जगत्कारणत्वात् । अतः परमात्मैवाऽत्र ब्रह्मशब्दाभिधेयः इममेव सूत्रार्थमभियुक्ता बहुमन्वते । यथाह वृत्तिकारः २"सर्व खल्विति सर्वात्मा ब्रह्मेशः" इति ॥१॥
विवक्षितगुणोपपत्तेश्च । १।२।२॥ कम वक्ष्यमाणाश्च गुणाः परमात्मन्येवोपपद्यन्ते ३"मनोमयः प्राणशरीरो भारूपस्सत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामसर्वगन्धस्सर्वरसस्सर्वमिदमभ्यात्तोऽवाक्यनादरः" इति । मनोमयः-परिशुद्धेन मनसैकेन ग्राह्यः; विवेकविमोकादिसाधनसप्तकानुगृहीतपरमात्मोपासननिर्मलीकृतेन हि मनसा गृह्यते । अनेन हेयप्रत्यनीककल्याणैकतानतया सकलेतरविलक्षणस्वरूपतोच्यते; मलिनमनोभिर्मलिनानामेव ग्राह्यत्वात् । प्राणशरीरः-जगति सर्वेषां प्राणानां धारकः प्राणो यस्य शरीरम् आधेयं विधेयं शेषभूतं च स प्राणशरीरः । आधेयत्वविधेयत्वशेषत्वानि शरीरशब्दप्रवृत्तिनिमित्तानीत्युपपादयिष्यते । भारूप:-भास्वररूपः, अप्राकृतवासाधारणनिरतिशयकल्याणदिव्यरूपत्वेन निरतिशयदीप्तियुक्त इत्यथेः सत्यसङ्कल्प:-अप्रतिहतसङ्कल्प: आकाशात्मा-आकाशवत्सूक्ष्मख१. शारी. ४.४.१७ ॥
३. छा. ३-१४-२ ॥ २. वृत्तिः .
For Private And Personal Use Only