________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. २. ]
सर्वत्रप्रसिद्ध्ययधिकरणम्
२३१
रस्मिलाँके पुरुषो भवति तथेतः प्रेत्य भवति स ऋतुं कुर्वीत मनोमयः प्राणशरीरो भारूपः" इत्यादि ॥
Acharya Shri Kailassagarsuri Gyanmandir
अत्र १" स ऋतुं कुर्वीत" इतिं प्रतिपादितस्योपासनस्योपास्यः १" मनोमयः प्राणशरीरः" इति निर्दिश्यत इति प्रतीयते । तत्र संशयःकिं मनोमयत्वादिगुणकः क्षेत्रज्ञः ; उत परमात्मा - इति । किं युक्तम् ? क्षेत्रज्ञ इति । कुत: ? मनःप्राणयोः क्षेत्रज्ञोपकरणत्वात्, परमात्मनस्तु २" अमाणो ह्यमनाः" इति तत्प्रतिषेधाच्च । न च १ " सर्वं खल्विदं ब्रह्म" इति पूर्वनिर्दिष्टं ब्रह्मात्रोपास्यतया सम्बद्धुं शक्यते, “शान्त उपासीत " इत्युपासनोपकरणशान्तिनिर्वृत्त्युपायभूतब्रह्मात्मकत्वोपदेशायोपात्तत्वात् ।
न च १ स ऋतुं कुर्वीत" इत्युपासनस्योपास्यसाकाङ्क्षत्वाद्वाक्यान्तरस्थमपि ब्रह्म सम्बध्यत इति युक्तं वक्तुम्, स्ववाक्योपात्तेन मनोमयत्वादिगुणकेन निराकाशत्वात् १" मनोमयः प्राणशरीरः" इत्यनन्यार्थतया निर्दिष्टस्य विभक्तिविपरिणाममात्रेणो भयाकाङ्क्षानिवृत्तिसिद्धेः । एवं निश्चिते जीवत्वे ' एतद्ब्रह्म' इत्युपसंहारस्थब्रह्मपदमपि जीव एव पूजार्थ प्रयुक्तमित्यध्यवसीयत इति ।।
१. छा. ३-१४-१॥
२. मु. २-१-२॥
३. पूर्ववाक्य निर्दिष्ट. पा||
४. मु. २-२-७॥
एवं प्राप्ते ब्रूमः - सर्वत्र प्रसिद्धोपदेशात् - मनोमयत्वादिगुणकः परमात्मा । कुतः ? सर्वत्र - वेदान्तेषु परस्मिन्नेव ब्रह्मणि प्रसिद्धस्य मनो - मयत्वादेरुपदेशात् । प्रसिद्धं हि मनोमयत्वादि ब्रह्मणः । यथा - ४१ 'मनोमयः प्राणशरीरनेता" ५ स एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः " ६" हृदा मनीषा मनसाऽभिकुप्तो य एनं विदुरमृतास्ते भवन्ति" "न चक्षुषा गृह्यते नापि वाचा" " मनसा तु
५. तै, शिक्षावल्ल्यां. ६-३ ॥
६. तै. नारायण. ३॥
७. मु. ३-१-८॥
For Private And Personal Use Only
८.