________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
श्रीशारीरकमीमांसाभाष्ये
[अ. १. विशुद्धेन" तथा "प्राणस्य प्राणः" २“अथ खलु पाण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति"३"सर्वाणि ह वा इमानि भूतानि प्राणमेवामिसंविशन्ति प्राणमभ्युजिहते" इत्यादिषु । मनोमयत्व-विशुद्धेन मनसा ग्राह्यत्वम् । प्राणशरीरत्वं-प्राणस्याप्याधारत्वं नियन्तृत्वंच ॥
एवं च सति ४"एष म आत्माऽन्तर्हृदय एतद्ब्रह्म" इति ब्रह्मशब्दोऽपि मुख्य एव भवति । ५“अमाणो ह्यमना:"इति मनआयत्तं ज्ञानं प्राणायत्तां स्थितिं च ब्रह्मणो निषेधति ।।
अथवा ६"सर्व खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत" इत्यत्रैवोपासनं विधीयते-सर्वात्मकं ब्रह्म शान्तस्सन्नुपासीति । ६"स ऋतुं कुर्वीत" इति तस्यैव गुणोपादानार्थोऽनुवादः। उपादेयाश्च गुणा मनोमयत्वादयः । यतस्सर्वात्मकं ब्रह्म मनोमयत्वादिगुणकमुपासीतेति वाक्यार्थः । तत्र सन्देहः-किमिह ब्रह्मशब्देन प्रत्यगात्मा निर्दिश्यते ; उत परमात्मा-इति । किं युक्तम् ? प्रत्यगात्मेति । कुतः ? तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः। सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृस्नं जगत्। ब्रह्मादिभावश्च प्रत्यगात्मनोऽनाद्यविद्यामूलकर्मविशेषोपाधिको विद्यत एव ; परस्य तु ब्रह्मणस्सर्वज्ञस्य सर्वशक्तेरपहतपाप्मनो निरस्तसमस्ताविद्यादिदोषगन्धस्य समस्तहेयाकरसर्वभावो नोपपद्यते। प्रत्यगात्मन्यपि कचित्कचिद्ब्रह्मशब्दः प्रयुज्यते । अत एव परमात्मा परं ब्रह्मेति परमेश्वरस्य कचित्सविशेषणो निर्देशः । प्रत्यगात्मनश्च निर्मुक्तोपाव॒हत्त्वं च विद्यते ७" स चानन्त्याय कल्पते " इति श्रुतेः । अविदुषस्तस्यैव कर्मनिमित्तत्वाजन्मस्थितिलयानां तज्जलानिति हेतुनिर्देशोऽ
१. केनोप. १-२॥ २. को. ३-२. ४. छा. ३-१४-४॥ अथ खल्वित्यधिक: पाठोनो पनिषदि॥
५. मु. २-१-२॥ ३. छा. १-११-५॥
६. छा. ३.१४-१॥
७.६.५.९॥
For Private And Personal Use Only