________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३०
श्रीशारीरकमीमांसाभाष्ये
[अ. १
निखिलजगदेककारणतया वेदान्तवेद्यं ब्रह्म च ईक्षणाद्यन्वयादानुमानिकप्रधानादर्थान्तरभूतश्चेतनविशेष एवेत्युपापीपदाम ॥ ५ ॥
स च स्वाभाविकानवधिकातिशयानन्दविपश्चित्त्वनिखिलचेतनभयाभयहेतुत्वसत्यसङ्कल्पत्वसमस्तचेतनाचेतनान्तरात्मत्वादिभिर्बद्धमुक्तो
Acharya Shri Kailassagarsuri Gyanmandir
-
- भयावस्थाज्जीवशब्दाभिलपनीयाच्चार्थान्तरभूत इति च समार्तिथामहि ॥ स चामाकृताकर्मनिमित्तवासाधारणादिव्यरूप इत्युदैरिराम ||७|| आकाशप्राणाद्यचेतनविशेषाभिधायिभिर्जगत्कारणतया प्रसिद्धवनिर्दिश्यमानस्सकले तर चेतनाचेतनविलक्षणस्स एवेति समगरिष्महि ||
परतत्त्वासाधारणनिरतिशयदीप्तियुक्तज्योतिश्शब्दाभिधेयो ग्रुसम्बन्धितया प्रत्यभिज्ञानात्स एवेत्यातिष्ठामहि ।। १० ।।
परमकारणासाधारणामृतत्वप्राप्तिहेतुभूतः परमपुरुष एव शास्त्रदृष्टयेन्द्रादिशब्दैरभिधीयत इत्यब्रुमहि ॥ ११ ॥
तदेवमतिपतितसकलेतरप्रमाणसम्भावनाभूमिस्सार्वज्ञयसत्यसङ्क
ल्पत्वाद्य परिमितोदारगुणसागरतया स्वेतरसमस्तवस्तुविलक्षणः परं ब्रह्म पुरुषोत्तमो नारायण एवं वेदान्तवेद्य इत्युक्तम् ॥
अतः परं द्वितीयतृतीयचतुर्थेषु पादेषु यद्यपि वेदान्तवेद्यं ब्रह्मैव, तथापि कानिचिद्वेदान्तवाक्यानि प्रधानक्षेत्रज्ञान्तर्भूतवस्तुविशेषस्वरूपप्रतिपादनपराण्येवेत्याशङ्कय तन्निरसनमुखेन तत्तद्वाक्योदितकल्याणगुणाकरत्वं ब्रह्मणः प्रतिपाद्यते ॥
तत्रास्पष्टजीवादिलिङ्गकानि वाक्यानि द्वितीये पादे विचार्यते ; स्पष्टलिङ्गकानि तृतीये; तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थे || सर्वत्र प्रसिद्धोपदेशात् । १ । २।१॥ इदमान्नायते छान्दोग्ये १ अथ खलु क्रतुमयः पुरुषो यथाऋतु
१. छा. ३-१४-१ ॥
For Private And Personal Use Only