________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः . श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये
(प्रथमाध्याये-द्वितीयपादे सर्वत्रप्रसिद्ध्यधिकरणम् ॥ १ ॥ ) --
ON
प्रथमे पादे अधीतवेदः पुरुषः कर्ममीमांसाश्रवणाधिगतकर्मयाथात्म्यविज्ञानः केवलकर्मणामल्पास्थिरफलत्वमवगम्य, वेदान्तवाक्येषु चापातप्रतीतानन्तस्थिरफलब्रह्मस्वरूप तदुपासनसमुपजातपरमपुरुषार्थ
लक्षणमोक्षापेक्षो saधारितपरिनिष्पन्नवस्तुबोधनशब्दशक्तिः वेदान्तवाक्यानां परस्मिन् ब्रह्मणि निश्चितप्रमाणभावस्तदितिकर्तव्यतारूपशारीरकमीमांसाश्रवणमारभेतेत्युक्तं शास्त्रारम्भसिद्धये ॥ १ ॥
अनन्तविचित्त्रस्थिरत्त्रसरूपभोक्तृभोग्य भोगोपकरणभोगस्थानलक्षणनिखिलजगदुदयविभवलय महानन्दैककारणं परं ब्रह्म “ यतो वा इमानि" इत्यादिवाक्यं बोधयतीति च प्रत्यपादि ॥ २ ॥
जगदेककारणं परं ब्रह्म सकलेतरप्रमाणाविषयतया शास्त्रैकममाकमित्यभ्यधाम ॥ ३॥
शास्त्रममाणकत्वं च ब्रह्मणः प्रवृत्तिनिवृत्त्यन्वयविरहेऽपि स्वरूपे - जैव परमपुरुषार्थ भूते परस्मिन् ब्रह्मणि वेदान्तवाक्यानां समन्वयानिरुह्यत इत्यब्रूम ॥ ४ ॥
१. तदुपासन: समुपजात. पा।।
For Private And Personal Use Only