________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
वेदान्तदीपे इन्द्रस्य जीवस्यैव सतः स्वात्मत्वेनोपास्यभूतपरमात्मोपदेशोऽयं शास्त्रदृष्टया। १"अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा' २"तत्त्वमसि'३“य आत्मनि तिष्ठमात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्माऽन्तर्याम्यमृतः'४"एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इत्यादीनि हि शास्त्राणि परमात्मानं जीवात्मन आत्मतयोपदिदिशुः; अतो जीवात्मवाचिनश्शब्दाः जीवात्मशरीरं परमात्मानमेव वदन्तीति शास्त्रदृष्टार्थस्य तस्य५'मामेव विजानीहि"५"माम् ...उपास्व"इति स्वात्मशब्देन परमात्मोपदेशो न विरुध्यते । यथा वामदेवश्शास्त्रदृष्टया स्वात्मशरीरकं परमात्मानं पश्यन् अहमिति परमात्मानमवोचत् , ६"तद्धतत्पश्यनृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्वाहं कक्षीवानृषिरस्मि विष" इति ॥ ३१॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्या
दाश्रितत्वादिह तद्योगात् । १।१॥३२॥ ५"त्रिशीर्षाणं त्वाष्टमहनमरुन्मुखान्यतीन्सालावृकेभ्यः प्रायच्छम्'५“यावदस्मिन् शरीरे प्राणो वसति तावदायुः" इति जीवमुख्यप्राणलिङ्गात् नाध्यास्मसम्बन्धभूम्ना परमात्मत्वनिश्चय इति चेन्न परमात्मन एव स्वाकारेण,जीवशरीरकत्वेन, प्राणशरीरकत्वेन चोपासात्रैविध्याद्धेतोः तत्तच्छब्देनाभिधानमिति निश्चीयते। अन्यत्रापि ब्रह्मोपासनात्रैविध्यस्याश्रितत्वात् -७ "सत्यं शानमनन्तं ब्रह्म' 'आनन्दो ब्रह्म" इति स्वाकारेणोपास्यत्वम् , ८"सश्च त्यञ्चाभवत्" इत्यादिना भोक्तृशरीरकत्वेन, भोग्यशरीरकत्वेन च । इह प्रतर्दनविद्यायामपि तस्य त्रैविध्यस्य सम्भवात् । अतः इन्द्रप्राणशब्दनिर्दिष्टः परमात्मा ॥
इति श्रीवेदान्तदीपे इन्द्रप्राणाधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तदीपे प्रथमस्याध्यायस्य
प्रथमः पादः॥
१. आरण. ३. प्र. अनु. २१॥ २. छा. ६-८-७॥ ३. बृ. ५-७-२२. माध्यन्दिनपाठे ॥ ४. सुबाल, ७. ख॥
५. कौ. ३.१॥ ६. वृ. ३-४-१०॥ ७. ते, आन. १॥ ८. ते. आन. ६॥
For Private And Personal Use Only