SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १. इन्द्रप्राणाधिकरणम्. २२७ युरमृतमित्युपास्व” इत्याह । अत्र हिततमोपासनकर्मतया निर्दिष्ट इन्द्रप्राणशब्दाभिधेयः,किं जीवः? उत परमात्मेति संशयः। जीव इति पूर्वः पक्षः। कुतः? इन्द्रशब्दस्य जीवविशेषे प्रसिद्धेः, प्राणशब्दस्यापि तत्समानाधिकरणस्य स एवार्थ इति? "तम्मामायुरमृतमित्युपास्स्व"इति तस्यैवोपास्यत्वोपदेशात् इति । राद्धान्तस्तु–इन्द्रप्राणशब्दनिर्दिष्टं जीवादर्थान्तरभूतं परं ब्रह्म,१“स एष प्राण एव प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः"इतीन्द्रप्राणशब्दनिर्दिष्टस्यैवजीवेष्वसम्भावि. तानन्दत्वाजरत्वामृतत्वादिश्रवणात्।सूत्रार्थस्तु -- उपास्यतयोपदिष्टम् इन्द्रप्राणशब्दाभिधेयं परं ब्रह्म तथेति प्रकारवचनः, परब्रह्मप्रकारभूतेष्वानन्दादिष्वस्यानुगमात् ॥ २९ ॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभू मा ह्यस्मिन्। १।१॥३०॥ नायमुपास्यः परमात्मा–१"मामेव विजानीहि"१ "तं मामायुरमृतमित्युपास्व'इति प्रज्ञातजीवभावस्येन्द्रस्य वक्तुस्स्वात्मन उपास्यत्वोपदेशात्। उपक्रमे जीवभावनिश्चये सति उपसंहारस्य तदनुगुणतया नेयत्वादिति चेन्न; अध्यास्मसम्बन्धभूमा ह्यस्मिन्--आत्मनि सम्बन्धः अध्यात्मसम्बन्धः, तस्य भूमा बहुत्वम् । जीवादर्थान्तरभूतात्मासाधारणधर्मसम्बन्धबहुत्वमस्मिन् प्रकरणे उपक्रमप्रभृत्युपसंहारादुपलभ्यते । उपक्रमे तावत् १ "यं त्वं मनुष्याय हिततमं मन्यसे” इति ह्यनेनोच्यमानमुपासनं परमात्मोपासनमेव, तस्यैव हिततमत्वात्। तथा २'एष एव साधु कर्म कारयति" इत्यादिसाध्वसाधुकर्मणोः कारयितृत्वं परमात्मन एव धर्मः । तथा २"तद्यथा रथस्यारेषु नेमिरर्पिता, नाभावरा अर्पि. ताः, एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः” इति सर्वाधारत्वञ्च तस्यैव धर्मः। आनन्दादयश्च, २"एष लोकाधिपतिरेष सर्वेशः" इति च । हीति हेतौ । अतः परं ब्रह्मैवायमित्यर्थः ॥ ३०॥ परमात्मैवोपास्यश्चेत् – कथमिन्द्रः १"मामुपास्स्व" इत्युपदिदेश-इत्यत आह शास्त्रदृष्टया तूपदेशो वामदेववत्।॥१॥३१॥ १. कौ. ३-१॥ २. कौ. ३.९॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy