SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६ वेदान्तसारे [अ. १. वदन्ति-१" तद्वैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च" इति ॥ ३१ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्या दाश्रितत्वादिह तद्योगात् । १।१॥३२॥ २"त्रिशीर्षाणं त्वाष्ट्रमहनम् , यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुः” इत्यादिजीवालिङ्ग, मुख्यप्राणलिङ्गं चास्मिन् दृश्यत इति नैवमिति चेन्न; उपासात्रैविध्यात् हेतोर्जीवशब्देन प्राणशब्देन च परमात्मनोऽभिधानम् । अन्यत्रापि परमात्मनः स्वरूपेणोपासनं भोक्तशरीरकत्वेन भोग्यभोगोपकरणशरीरकत्वेन इति त्रिविधं परमात्मोपासनमाश्रितम् । यथा ३" सत्यं ज्ञानमनन्तं ब्रह्म" इति स्वरूपेण,४ तदनुप्रविश्य सञ्च त्यञ्चाभवत्" इत्यादि ५"सत्यञ्चानृतश्व सत्यमभवत्" इति भोक्तृशरीरकत्वेन भोग्यभोगोपकरणशरीरकत्वेन च इहापि तत्सम्भवादेवमुपदेशः। ६" जन्माद्यस्य यतः" इत्यादिषु सब्रह्मात्मेति सामान्यशब्दैहि जगत्कारणं प्रकृतिपुरुषाभ्यामर्थान्तरभूतमिति साधितम् । ७" ज्योतिश्चरणाभिधानात्" इत्यस्मिन् सूत्रे पुरुषसूक्तोदितो महापुरुषो जगकारणमिति विशेषतो निर्णीतम् । स एव प्रज्ञातजीववाचिभिरिन्द्रादिशब्दैरपि क्वचित्क्वचिच्छास्त्रदृष्टया तत्तच्छरीरकतया चोपास्यत्वायोपदिश्यतइति ८"शास्त्रदृष्टया तूपदेशो वामदेववत्" इति उपासात्रैविध्यात् इति साधितम् ॥ ___इति श्रीवेदान्तसारे इन्द्रप्राणाधिकरणम् ॥ ११ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याध्यायस्य प्रथमः पादः॥ .....( वेदान्तदीपे इन्द्रप्राणाधिकरणम् ॥ ११ ॥)..... प्राणस्तथाऽनुगमात्।१।१।२९॥ कौषीतकीब्राह्मणे प्रतर्दनविद्यायां ९"त्वमेव मे वरं वृणीष्व यं त्वं मनुज्याय हिततमं मन्यसे"इति प्रतर्दनेनोक्त इन्द्रः ९"प्राणोऽस्मि प्रशात्मा तं मामा १.पू. ३-४-१०॥ २. कौ. ३-१॥ ६. शारी. १-१-२॥ ७.शारी.१-१-२६॥ ३. तै. आन. १॥ ४,५. ते. आन.६॥ ८. शारी. १-१-३१॥ ९. को. ३.१. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy