SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir --(वेदान्तसारे इन्द्रप्राणाधिकरणम् ॥ ११ ॥) -- प्राणस्तथाऽनुगमात्। १।१॥२९॥ आत्मनां हिततमरूपमोक्षसाधनोपासनकर्मतया प्रज्ञातजीवभावस्य इन्द्रस्य १"प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व"इति विधानात् स एव जगत्कारणम् । कारणोपासनं हि मोक्षसाधनम् , २ "तस्य तावदेव चिरं यावन्न विमोक्ष्ये । अथ सम्पत्स्ये' इति श्रुतेरिति नाशङ्कनीयम् ; प्राणशब्दसमानाधिकरणेन्द्रशब्दनिर्दिष्टो जीवादर्थान्तरभूत उक्तलक्षणः परमात्मैव । कुतः ? तथानुगमात्, परमात्मासाधारणानन्दाजरामृतादिष्वस्येन्द्रप्राणशब्दनिर्दिष्टस्यानुगमो हि दृश्यते-१" स एष प्राण एव प्रशात्माऽनन्दोऽजरोऽमृतः" इति ॥ २९॥ न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्भन्धभू मा ह्यस्मिन्।१।१॥३०॥ उपक्रमे हि१ "मामेव विजानीहि' इति त्वाष्टवधादिना प्रशातजीवभावस्य इन्द्रस्योपदेशात्, उपसंहारस्तदनुगुणो वर्णनीय इति चेत्-नैतत्; अध्यात्मसम्बन्धभूमा हस्मिन्---अध्यात्म-परमात्मधर्मः । परमात्मधर्मसम्बन्धबहुत्वमस्मिन्निन्द्रशब्दाभिधेये, वाक्योपक्रमप्रभृत्युपसंहारादृश्यते । १“यं त्वं मनुष्याय हिततमं मन्यसे" इति हिततमोपासनं प्रारब्धम् । तञ्च परमात्मधर्मः । ४"तमेवं विद्वानमृत इह भवति। नान्यः पन्थाः"इत्यादिश्रुतेः। तथा ५"एष एव साधु कर्म कारयति" इत्यादिना सर्वस्य कारयितृत्वम्, ५"एवमेवैता भूतमात्राः"इत्यारभ्य ५"प्रशामात्राः प्राणेष्वर्पिताः" इति सर्वाधारत्वं, तथा आनन्दादयश्च, ५“एष लोकाधिपतिः” इत्यादिना सर्वेश्वरत्वञ्च ॥ ३०॥ शास्त्रदृष्ट्या तूपदेशो वामदेववत्।।१।३१॥ नामरूपव्याकरणादिशास्त्रात्सर्वशब्दैः परमात्मैवाभिधीयत इति दृष्टया तज्हापनायायमिन्द्रशब्देन परमात्मोपदेशः । शास्त्रस्था हि वामदेवादयः तथैव १. कौ. ३-१॥ २. छा. ६-१४-७॥ ४. पुरुषसू॥ ५. कौ. ३-९॥ ३. प्राणशब्दस्यानुगमो. पा॥ 29 For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy