________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२४
[अ. १.
श्री शारीरकमीमांसाभाष्ये वदस्मिन् शरीरे प्राणो वसति तावदायुः " १" अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्मोत्थापयति" इति मुख्यमाणलिङ्गाश्च नाध्यात्मसम्बन्धभूमेति चेत् —न, उपासालैविध्यात् हेतोः, उपासनात्वैविध्यमुपदेष्टुं तत्तच्छब्देनाभिधानम्-निखिलकारणभूतस्य ब्रह्मणस्वरूपेणानुसन्धानम्, भोक्तृवर्गशरीरकत्वानुसन्धानम्, भोग्यभोगोपकरणशरीरकत्वानुसन्धानंचेति त्रिविधमनुसन्धानमुपदेष्टुमित्यर्थः । तदिदं त्रिविधं ब्रह्मानुस - न्धानं प्रकरणान्तरेष्वप्याश्रितम् - २" सत्यं ज्ञानमनन्तं ब्रह्म" ३" आनन्दो ब्रह्म” – इत्यादिषु स्वरूपानुसन्धानम् ; ४" तत्सृष्ट्वा तदेवानुप्राविशत् । तदनुप्रविश्य | सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत्" इत्यादिषु भोक्तृशरीरतया, भोग्यभोगोपकरणशरीरतया चानुसन्धानम् । इहापि प्रकरणे तत्रिविधमनुसन्धानं युज्यत एवेत्यर्थः ॥
१. कौ. ३. १॥
२. तै. आन. १. अनु ।।
एतदुक्तं भवति - यत्र हिरण्यगर्भादिजीवविशेषाणां प्रकृत्याद्यचेतनविशेषाणां च परमात्मासाधारणधर्मयोगः तदभिधायिनां शब्दानां परमात्मवाचिशब्दैस्सामानाधिकरण्यं वा दृश्यते ; तत्र परमात्मनस्तत्तच्चिदचिद्विशेषान्तरात्मत्वानुसन्धानं प्रतिपिपादयिषितम् - इति । अतोऽत्रेन्द्रप्राणशब्दनिर्दिष्टो जीवादर्थान्तरभूतः परमात्मैवेति सिद्धम् ॥ ३२ ॥
इति श्रीशारीरकमीमांसाभाष्ये इन्द्रप्राणाधिकरणम् ॥ ११ ॥
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य प्रथमः पादः ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
३.
तै. भृ. ६. अनु ॥
४. तै, आन. ६, २॥
For Private And Personal Use Only