SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] इन्द्रप्राणाधिकरणम्. २२१ जीवेनाऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि" १"ऐतदात्म्यमिदं सवम्"२"अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा"३"य आत्मनि तिष्ठन्नास्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति" "एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण" इत्येवमादिना शास्त्रेण जीवात्मशरीरकं परमात्मानमवगम्य जीवात्मवाचिनामहत्वमादिशब्दानामपिं परमात्मन्येव पर्यवसानं ज्ञात्वा ५“मामेव विजानीहि" ५"मामुपास्व" इति स्वात्मशरीरकं परमात्मानमेवोपास्यत्वेनोपदिदेश-इति । वामदेववत्-यथा वामदेवः परस्य ब्रह्मणः सर्वान्तरात्मत्वं सर्वस्य च तच्छरीरत्वं शरीरवाचिनां च शब्दानां शरीरिणि पर्यवसानं पश्यन् 'अहम्' इति खात्मशरीरकं परं ब्रह्म निर्दिश्य तसामानाधिकरण्येन मनुसूर्यादीन् व्यपदिशति ६"तद्वैतत्पश्यनृषिर्वामदेवः प्रतिपदे अहं मनुरभवं सूर्यश्चाहं कक्षीवानृषिरस्मि विप्र" इत्यादिना । यथा च प्रहादः ७"सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तस्सर्वमहं सर्वे मयि सर्व सनातने" इत्यादि वदति ॥ ३१॥ अस्मिन् प्रकरणे जीववाचिभिश्शब्दैरचिद्विशेषाभिधायिभिश्चोपास्यभूतस्य परस्य ब्रह्मणोऽभिधाने कारणं चोद्यपूर्वकमाहजीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्या दाश्रितत्वादिह तद्योगात् । १।१॥३२॥ "न वाचं विजिज्ञासीत वक्तारं विद्यात्" ५"त्रिशीर्षाणं त्वाष्टमहनम् अरुन्मुखान्यतीन् सालाकेभ्यः प्रायच्छम्" इत्यादिजीवलिङ्गात्, ५"या१. छा, ६.८. ७॥ २, यजु.आरण॥ | इत्यन्तमेव बृहदारण्यके दृश्यते। ऋक्संहिता (३. ३. १.५.७.२२॥ ४. सुवाल. ७. ख॥ ६-१५-४-३-२६-१) वाक्यम् 'अहम् ' इत्या५. को. ३. १॥ रभ्य 'विप्र' इत्यन्तम् ॥ १.र. ३. ४.१०. ' महम्मनु-सूर्यच ..वि.पु.१.१९.८९॥ ८.को.१.८ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy