SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१ श्रीशारीरकमीमांसामाग्ये [भ.१. नाचेतनवस्तुजातमभिधाय प्रज्ञामाताशब्देन तदाधारतया चेतनवर्ग चाभिधाय तस्याप्याधारतया प्रकृतमिन्द्रमाणशब्दाभिधेयं निर्दिश्य तमेव १"आनन्दोऽजरोऽमृतः" इत्युपदिशति।तदेतञ्चेतनाचेतनात्मककृत्स्नवस्त्वाधारत्वं जीवादर्थान्तरभूतेऽस्मिन् परमात्मन्येवोपपद्यत इत्यर्थः ।। अथवा-अध्यात्मसम्बन्धभूमा ह्यस्मिन्-परमात्मासाधारणधर्मसम्बन्धोऽध्यात्मसम्बन्धः । तस्य भूमा बहुत्वं हि अस्मिन् प्रकरणे विघते। तथाहि--प्रथमं २ "त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततम मन्यसे"इति'मामुपास्व"इति च परमात्मासाधारणमोक्षसाधानोपासनकर्मत्वं प्राणशब्दनिर्दिष्टस्येन्द्रस्य प्रतीयते । तथा २"एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपति एष एवासाधु कर्म कारयति तं यमधो निनीषति" इति सर्वस्य कर्मणः कारयितृत्वं च परमात्मधर्मः। तथा २ "तद्यथा रथस्यारेषु नेमिरर्पिता नामावरा अर्पिताः एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः, प्रज्ञामात्राः प्राणेऽर्पिताः" इति सर्वाधारत्वं च तस्यैव धर्मः।तथा२ "स एष प्राण एव प्रज्ञात्माऽनन्दोऽजरोऽमृतः" इत्येतेऽपि परमात्मन एव धर्माः । २“एष लोकाधिपतिरेष सर्वेशः" इति च परमात्मन्येव सम्भवति । तदेवमध्यात्मसम्बन्धभूम्नोऽत्र विद्यमानत्वात्परमात्मैवानेन्द्रमाणशब्दनिर्दिष्टः ॥३०॥ कथं तर्हि प्रज्ञातजीवभावस्येन्द्रस्य स्वात्मन उपास्यत्वोपदेशस्सअच्छते । तत्राहशास्त्रदृष्टया तूपदेशो वामदेववत् । १।१॥३१॥ प्रज्ञातजीवभावेनेन्द्रेण३ 'मामेव विजानीहि" ३ "मामुपास्स्व"इत्युपास्यस्य ब्रह्मणस्वात्मत्वेनोपदेशोऽयं न प्रमाणान्तरमाप्तस्वात्मावलोकनकृतः, अपितु शास्त्रेण स्वात्मदृष्टिकृतः । एतदुक्तं भवति-४"अनेन १. कौ. ३, ९॥ २. कौ ३. ९॥ ३. को. ३. १॥ . ४. छा. ६. ३. २॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy