________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रा. १.]
इन्द्रप्राणाधिकरणम्
२२१
१" तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये" इत्यवगता । अतः प्रसिद्धजीवभाव इन्द्र एव कारणं ब्रह्म ॥
इत्याशङ्कायामभिधीयते - प्राणस्तथानुगमात् - इति : अयमिन्द्रमाणशब्दनिर्दिष्टो न जीवमात्रम् अपि तु जीवादर्थान्तरभूतं परं ब्रह्म । २" स एष प्राण एव प्रज्ञात्मा आनन्दोऽजरोऽमृतः” इतीन्द्रप्राणशब्दाभ्यां प्रस्तुतस्याऽनन्दाजरामृतशब्दसामानाधिकरण्येनानुगमो हि तथा सत्येबोपपद्यते ।। २९ ।।
नवक्रात्मोपेदशादिति चेदध्यात्मसंबन्ध भूमा ह्यस्मिन् । १।१।३०॥
यदुक्तमिन्द्रप्राणशब्दनिर्दिष्टस्य २" आनन्दोऽजरोऽमृतः" इत्यनेनैकार्थ्यादयं परं ब्रह्मेति । तन्नोपपद्यते, ३" मामेव विजानीहि " ३" प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्व" इति वक्ता हीन्द्र : २ " त्रिशीर्षाणं त्वाष्टमहनम् " इत्येवमादिना त्वाष्टवधादिभिः प्रज्ञातजीवभावस्य स्वात्मन एवोपास्यतां प्रतर्दनायोपदिशति । अत उपक्रमे जीवविशेष इत्यवगते सति २" आनन्दोऽजरोऽमृतः" इत्यादिभिरुपसंहारस्तदनुगुण एव वर्णनीय इति चेत्
परिहरति--अध्यात्मसम्बन्धभूमा यस्मिन्- आत्मनि यस्सम्बन्धस्सोऽध्यात्मसम्बन्धः । तस्य भूमा भूयस्त्वम्, - बहुत्वमित्यर्थः । आत्मन्याधेयतया सम्बध्यमानानां बहुत्वेन सम्बन्धबहुत्वम् । तच्चास्मिन्वक्तरि परमात्मन्येव हि सम्भवति। २" तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्खर्पिताः प्रज्ञामात्राः प्राणेऽर्पितास एष प्राण एव प्रज्ञात्माऽनन्दोऽजरोऽमृतः” इति भूतमात्राशब्दे -
१. छा. ६. १४. २॥
३. कौ. ३. १॥
२.
Acharya Shri Kailassagarsuri Gyanmandir
कौ. ३. ९॥
For Private And Personal Use Only