________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिज्ञासाधिकरणम्
धर्मजिज्ञासा" इत्यारभ्य १" अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् " इत्येवमन्तं सङ्गतिविशेषेण विशिष्टक्रमम् । तथाहि – प्रथमं तावत् २" स्वाध्यायोऽध्येतव्यः" इत्यध्ययनेनैव स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेर्ग्रहणं विधीयते ॥
Acharya Shri Kailassagarsuri Gyanmandir
तच्चाध्ययनं किंरूपं कथं च कर्तव्यमित्यपेक्षायाम् ३" अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयेत्" इत्यनेन,
४ “ श्रावण्यां प्रोष्ठपद्यां वा उपाकृत्य यथाविधि । युक्त छन्दांस्यधीयीत मासान्विमोऽर्धपञ्चमान् ॥ " इत्यादिव्रतनियमविशेषोपदेशैश्वापेक्षितानि विधीयन्ते ॥
एवं सत्सन्तानप्रसूतसदाचारनिष्ठात्मगुणोपेतवेदविदाचार्योपनीतस्य व्रतनियमविशेषयुक्तस्याऽचार्योच्चारणानूच्चारणरूपमक्षरराशिग्रहण
फलमध्ययनमित्यवगम्यते ॥
अध्ययनं च स्वाध्यायसंस्कारः, ५" स्वाध्यायोऽध्येतव्यः " इति स्वाध्यायस्य कर्मत्वावगमात् । संस्कारो हि नाम कार्यान्तरयोग्यताकरणम् | संस्कार्यत्वं च स्वाध्यायस्य युक्तम्, धर्मार्थकाममोक्षरूपपुरुषा| र्थचतुष्टय तत्साधनावबोधित्वात्, जपादिना स्वरूपेणापि तत्साधनत्वाच्च ॥
एवमध्ययनविधिर्मन्त्रवत् नियमवदक्षरराशिग्रहणमात्रे पर्यत्रस्यति । अध्ययनगृहीतस्य स्वाध्यायस्य स्वभावत एव प्रयोजनवदर्थावबोधित्वदर्शनात्, गृहीतात्स्वाध्यायादवगम्यमानान् प्रयोजनवतोऽर्थानापाततो दृष्ट्वा तत्स्वरूपप्रकारविशेषनिर्णयफलवेदवाक्यविचाररूपमीमांसाश्रवणे
१. शारीरकमी ४. अ. ४. पा. २२. सृ.
२. यजुरारण्यके २. प्र. १५. अनु.
३. शतपथब्राह्मणम् .
४. मनुस्मृ. ४. अ. ९५. श्लो.
५. यजुरारण्यके. २. प्र. १५. अनु.
For Private And Personal Use Only