SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शारीरकमीमांसाभाष्ये अ. १. ऽधीतवेदः पुरुषस्वयमेव प्रवर्तते । तत्र कर्मविधिस्वरूपे निरूपिते कर्मणामल्पास्थिरफलत्वं दृष्ट्वाऽध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चामृतत्वरूपानन्तस्थिरफलापातप्रतीतेस्तनिर्णयफलवेदान्तवाक्यविचाररूपशारीरकर्मामांसायामाधिकरोति । तथा च वेदान्तवाक्यानि केवलकर्मफलस्य क्षयित्वं ब्रह्मज्ञानस्य चाक्षयफलत्वं दर्शयन्ति– १“तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते" २" अन्तवदेवास्य तद्भवति" ३" नह्यध्रुवैःप्राप्यते" "प्लवा ह्येते अदृढा यज्ञरूपाः" ५" परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन तद्विज्ञानार्थ स गुरुमेवाभिगच्छेत्समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठातस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् " ६" ब्रह्मविदाप्नोति परम्" ७" न पुनर्पत्यवे तदेकं पश्यति" " न पश्यो मृत्यु पश्यति" ९"स खराडवति" १०" तमेवं विद्वानमृत इह भवति" ११" पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति"--इत्यादीनि ॥ ननु च साङ्गवेदाध्ययनादेव कर्मणां स्वर्गादिफलत्वम् , स्वर्गादीनां च क्षयित्वं, ब्रह्मोपासनस्यामृतत्वफलत्वं च ज्ञायत एव । अनन्तरं मुमुक्षुर्ब्रह्मजिज्ञासायामेव प्रवर्तताम् । किमर्था धर्मविचारापेक्षा । एवं तर्हि शारीरकमीमांसायामपि न प्रवर्तताम् , सागाध्ययनादेव कृत्स्नस्य ज्ञातत्वात् । सत्यम् ; आपातप्रतीतिर्विद्यत एव, तथाऽपि न्यायानुगृहीतस्य १. छान्दोग्ये. ८. प्रपाठके. १. खण्डे. ६. वा. ७. २. बृहदारण्यके.५.अध्याये.८.ब्राह्मणे.१०.वा. ८. छा-उ. ७. प्र. २६. ख. २. वा. ३. कठे. २. वल्लयां. १०. वा. ९. छा-उ. ७. प्र. २५. ख. २. वा. ४. मुण्डकोपनिषदि.१.मुण्डके. २. ख. ७. वा. १०. पुरुषसूक्ते. २०. वा. ५. मुण्ड-उ. १. मुण्ड. २. ख. १२.१३.वा. ११. श्वेताश्वतरे. १. अ. ६. वा. ३. तैत्तिरीये, आनन्द. २.अ. १. अनु.१.वा. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy