________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शारीरकमीमांसाभाष्ये
[अ. १.
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा | ब्रह्मण इति कर्मणि षष्ठी, १" कर्तृकर्मणोः कृति" इति विशेषविधानात् । यद्यपि सम्बन्धसामान्यपरिग्रहेऽपि जिज्ञासायाः कर्मापेक्षत्वेन कर्मार्थत्वसिद्धि:, तथाऽप्याक्षेपतः प्राप्तादाभिधानिकस्यैव ग्राह्यत्वात् कर्मणि षष्ठी गृह्यते । न च २" प्रतिपदविधाना षष्ठी न समस्यते " इति कर्मणि षष्ठयास्समास निषेधश्शङ्कनीयः, " ३" कृद्योगा च षष्ठी समस्यते " इति प्रतिप्रसवसम्भवात् ब्रह्मशब्देन च स्वभावतो निरस्तनिखिलदोषोऽनवधिकातिशयासङ्घयेयकल्याणगुणगणः पुरुषोत्तमोऽभिधीयते । सर्वत्र बृहत्त्वगुणयोगेन हि ब्रह्मशब्दः । बृहत्त्वं च स्वरूपेण गुणैश्च यत्रानवाधिकातिशयं सोsस्य मुख्योऽर्थः स च सर्वेश्वर एव । अतो ब्रह्मशब्दस्तत्रैव मुख्यवृत्तः । तस्मादन्यत्र तद्गुणलेशयोगादौपचारिकः, अनेकार्थकल्पनायोगात्, भगवच्छब्दवत् । तापत्रयातुरैरमृतत्वाय स एव जिज्ञास्यः । अतस्सर्वेश्वर एव जिज्ञासाकर्मभूतं ब्रह्म ।
Acharya Shri Kailassagarsuri Gyanmandir
ज्ञातुमिच्छा जिज्ञासा । इच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधीयते ॥
मीमांसापूर्व भागज्ञातस्य कर्मणोऽल्पास्थिर फलत्वादुपरितनभागावसेयस्य ब्रह्मज्ञानस्यानन्ताक्षयफलत्वाच्च पूर्ववृत्तात्कर्मज्ञानादनन्तरं तत एव हेतोर्ब्रह्म ज्ञातव्यमित्युक्तं भवति । तदाह वृत्तिकारः -- ४" वृत्तात्कर्माधिगमादनन्तरं ब्रह्मविविदिषा" इति । वक्ष्यति च कर्मब्रह्ममीमांसयोरैकशास्त्र्यं – ५“ संहितमेतच्छारीरकं जैमिनीयेन षोडशलक्षणेनेति शास्त्रैकत्वसिद्धिः" इति । अतः प्रतिपिपादयिषितार्थभेदेन षट्कभेदवदध्यायभेदवच्च पूर्वोत्तरमीमांसयोर्भेदः । मीमांसाशास्त्रम् - ६" अथातो
१. अष्टा. २. अ. ३. पा. ६५. सू. २. अष्टा. २. अ. २. पा. १० सू० वा.
३. अष्टा. २. अ. २. पा. ८. सू. वा.
४. बोधायनवृत्ति:
५. बोधायनवृत्ति:
६. कर्ममी. १. अ. १. पा. १. सू.
For Private And Personal Use Only
-