________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमते रामानुजाय नमः ॥
श्रीभगवद्रामानुजविरचितं शारीरकमीमांसाभाष्यम् ॥
अखिलभुवनजन्मस्थेमभङ्गादिलीले विनतविविधभूतवातरक्षैकदीक्षे । श्रुतिशिरसि विद ब्रह्मणि श्रीनिवासे भवतु मम परस्मिञ्शेमुषी भक्तिरूपा || पाराशर्यवचस्सुधामुपनिषद्दग्धान्धिमध्योद्धतां संसाराग्निविदीपनव्यपगतप्राणात्मसञ्जीवनीम् । पूर्वाचार्य सुरक्षितां बहुमतिव्याघातदूरस्थितामानीतां तु निजाक्षरैस्सुमनसो भौमाः पिवन्त्वन्वहम् | + (प्रथमाध्याये - प्रथमपादे - जिज्ञासाधिकरणम् ॥ ) : भगवद्बोधायनकृतां विस्तीर्णा ब्रह्मसूत्रवृत्तिं पूर्वाचार्यास्सश्चिक्षिपुः, तन्मतानुसारेण सूत्राक्षराणि व्याख्यास्यन्ते
ॐ ॥ अथातो ब्रह्मजिज्ञासा ॥ १ ॥
अत्रायमथशब्द आनन्तर्ये भवति । अतश्शब्दो वृत्तस्य हेतुभावे । अधीतसाङ्गसशिरस्कवेदस्याधिगताल्पास्थिरफलकेवलकर्मज्ञानतया
सं
जातमोक्षाभिलाषस्यानन्तस्थिरफलब्रह्मजिज्ञासा ह्यनन्तरभाविनी ।
For Private And Personal Use Only