SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ बेदान्तसारे पूर्वत्र १"गायत्री वा इदं सर्वम्" इति गायव्याख्यच्छन्दः प्रस्तुतमिति नात्र परमपुरुषाभिधानमिति चेत्-नैतत्, परमपुरुषस्यैव गायत्रीसादृश्यस्य अनुसन्धानोपदेशत्वात्, तस्य छन्दोमात्रस्य सर्वभूतात्मकत्वानुपपत्तेरेवेति निगम्यते । अन्यत्रापि ह्यन्यस्य छन्दस्सादृश्यात् छन्दोनिर्देशः दृश्यते २ "ते वा एते पञ्चान्ये" इत्यारभ्य "सैषा विराट्" इत्यादौ ॥ २६॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम्।।१॥२७॥ भूतपृथिवीशरीरहृदयैश्चतुष्पदेति व्यपदेशश्च परमपुरुषे गायत्रीशब्दनिर्दिष्टे ह्युपपद्यत इति पूर्वोक्तप्रकार एव समासः ॥२७॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्य विरोधात्। १११॥२८॥ पर्वत्र३"त्रिपादस्यामृतन्दिवि"इति परमपुरुषो व्यपदिश्यते। भत्र ४"अथ यदतः परो दिवः" इति पञ्चम्या निर्दिष्टः द्युसम्बन्धिज्योतिरिति न प्रत्यभिज्ञेति चेत्-नैतत्, उभयस्मिन्नपि व्यपदेशे विरोधाभावात् ; यथा 'वृक्षाग्रे श्येनः, वृक्षापात्परतश्श्येनः' इति व्यपदेशः । अत्र दिवः परत्वमेव उभयत्र विवक्षितमित्यर्थः ॥ २८॥ .. इति श्रीवेदान्तसारे ज्योतिरधिकरणम् ॥ ९ ॥ ----(वेदान्तदीपे ज्योतिरधिकरणम् ॥ १०॥).-..-. ज्योतिश्चरणाभिधानात् । १।१।२५॥ छान्दोग्ये ४"अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः" इत्यत्र जगत्कारणत्वव्याप्तनिरतिशयदीप्तियुक्ततया ज्योतिश्शब्दनिर्दिष्टं किं प्रसिद्धादित्यादि ज्योतिः, उत परमेव ब्रह्मेति संशयः, प्रसिद्धज्योतिरिति पूर्वः पक्षः । कुतः? ५ " इदं वाच तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः" इति कौक्षेयज्योतिषा १. छा. ३. १२. १॥ । ३. छा. ३. १२, ६॥ २. छा. ४. ३. ८॥ ४. ५.... १३.७॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy