________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] ज्योतिरधिकरणम्
२१७ दिवः परो ज्योतिर्दीप्यत इति प्रतिपाद्यते । १" एतावानस्य महिमा । अतो ज्यायाँश्च पुरुषः । पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि" इति प्रतिपादितस्य चतुष्पदः परमपुरुषस्य २" वेदाहमेतं पुरुष महान्तम् । आदित्यवर्ण तमसस्तु पारे" इत्यभिहिताप्राकृतरूपस्य तेजोऽप्यप्राकृतमिति तद्वत्तया स एव ज्योतिश्शब्दाभिधेय इति निरवद्यम् ॥
इति श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम् ॥ १० ॥ -n.(वेदान्तसारे ज्योतिरधिकरणम् ॥ १०॥)-..ज्योतिश्चरणाभिधानात् । १।१॥२५॥
“अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुतमेषूत्तमेषु लोकेषु इदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिः” इत्यत्र स
स्मात्परत्वेन निर्दिश्यमानतया सकलकारणभूतज्योतिषः कौक्षयज्योतिषैक्याभिधानात् , स्ववाक्ये विरोधिलिङ्गादर्शनाच, प्रसिद्धमेव ज्योतिर्जगत्कारणत्वेन प्रदिपाद्यत इति शङ्कायाम् , यद्यपि स्ववाक्ये विरोधिलिङ्गं न दृश्यते; तथापि पूर्वस्मिन् वाक्ये ४"पादोऽस्य विश्वा भूतानिात्रिपादस्यामृतन्दिवि" इति प्रतिपादितस्य सर्वभूतचरणस्य परमपुरुषस्यैव धुसम्बन्धितयाऽत्रापि प्रत्यभिज्ञानात् स एव ज्योतिश्शब्देन सर्वस्मात् परत्वेन सकलकारणतयाऽभिधीयते। अस्य च कौशेयज्योतिषैक्याभिधानं फलायोपदिश्यत इति न काश्चद्विरोधः। अखिलजगदेककारणभूतः परमपुरुषोऽप्राकृतवासाधारणदिव्यवों दिव्यरूपस्तमसः परस्ताद्वर्तत इति तस्यैव निरतिशयदीप्तियोगात् ज्योतिश्शब्दाभिधेयत्वम् ३ "विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु अनुत्तमेषूत्तमेषु लोकेषु" वासश्च युज्यत एव ॥२५॥ छन्दोभिधानान्नेतिचेन्न तथा चेतोर्पणनिगमात्तथा
हि दर्शनम्।१।१॥२६॥ १.२. यजु, आरण्य, ३. प्र. १२. अ. ३, छा. ३. १३. ७॥
४.छा.३-१२-६॥
38
For Private And Personal Use Only