________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१६
शारीरकमीमांसाभाष्ये
[अ. १
तन्न, तथा चेतोर्पणनिगमात् न गायत्रीशब्देन छन्दोमात्रमिहाभिधीयते, छन्दोमावस्य सर्वात्मकत्वानुपपत्तेः अपि तु ब्रह्मणएव गायत्रीचेतोर्पणमिह निगम्यते । ब्रह्मणि गायत्री सादृश्यानुसन्धानं फलायोपदिश्यत इत्यर्थः । सम्भवति च १ " पादोऽस्य सर्वा भूतानि । त्रिपादस्यामृतं दिवि " इति चतुष्पदो ब्रह्मणश्चतुष्पदया गायश्या च सादृश्यम् । चतुष्पदा च गायत्री कचिद्दश्यते । तद्यथा २" इन्द्रश्शचीपतिः । बलेन पीडितः | दुश्च्यवनो वृषा । समित्सुसासहिः" इति । तथा ह्यन्यत्रापि सादृश्याच्छन्दोभिधायी शब्दोऽर्थान्तरे प्रयुज्यमानो दृश्यते । यथा संवर्गविद्यायाम् ३" ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्ते" इत्यारभ्य ३" सैषा विराडन्नात्" इत्युच्यते ।। २६ ।। इतश्व गायत्रीशब्देन ब्रह्मैवाभिधीयते—
Acharya Shri Kailassagarsuri Gyanmandir
भृतादिपादव्यपदेशोपपत्तेश्चैवम् १।१।२७ ॥
भूतपृथिवीशरीरहृदयानि निर्दिश्य " सैषा चतुष्पदा" इति व्यपदेशो ब्रह्मण्येव गायत्रीशब्दाभिधेय उपपद्यते ॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् । १।१।२८॥
पूर्ववाक्ये ६" त्रिपादस्यामृतं दिवि " इति दिवोऽधिकरणत्वेन निर्देशादिह च दिवः पर इत्यवधित्वेन निर्देशादुपदेशस्य " भिन्नरूपत्वेन पूर्ववाक्योक्तं ब्रह्म परस्मिन्न प्रत्यभिज्ञायत इति चेत् — तन्न, उभयस्मि - नपि उपदेशे अर्थ स्वभावैक्येन प्रत्यभिज्ञाया अविरोधात् ; यथा ' वृक्षाग्रे श्येनो वृक्षाग्रात्परतश्श्येनः' इति । तस्मात्परमपुरुष एव निरतिशयतेजस्को १. छा, ३-१२-६॥ २. मानुजीयादिषु पाठो दृश्यते॥५. छा. ३-१२-५ ॥ ३. छा. ४-३-८॥ ४. सन्त इति रङ्गरा - | ६. छा. ६-१२-६॥ ७. भिन्नत्वेन पा ॥
For Private And Personal Use Only