________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५
पा. १.]
ज्योतिरधिधिकरणम्. मितभास्सर्वज्ञस्सत्यसङ्कल्पः पुरुषोत्तमः-इति । किं युक्तम् प्रसिद्धमेव ज्योतिरिति । कुतः १ प्रसिद्धवनिर्देशेऽप्याकाशप्राणादिवत् खवाक्योपात्तपरमात्मव्याप्तलिङ्गविशेषादर्शनात्, परमपुरुषप्रत्यभिज्ञानासम्भवात, कौक्षेयज्योतिषैक्योपदेशाच्च प्रसिद्धमेव ज्योतिः कारणत्वव्याप्तनिरतिशयदीप्तियोगाजगत्कारणं रब्रह्मेति ॥
-.(सिद्धान्तः)...एवं प्राप्ते प्रचक्ष्महे-ज्योतिश्चरणाभिधानात्-युसम्बन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योतिः परमपुरुष एव । कुतः ? ३“पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि" इत्यस्यैव द्युसम्बन्धिनश्वरणत्वेन सर्वभूताभिधानात् ॥
एतदुक्तं भवति-यद्यपि४“अथ यदतः परो दिवो ज्योतिः" इत्यस्मिन्वाक्ये परमपुरुषासाधारणलिङ्गं नोपलभ्यते; तथापि पूर्ववाक्ये घुसम्बन्धितया परमपुरुषस्य निर्देशादिदमपि द्युसम्बन्धिज्योतिस्स एवेति प्रत्यभिज्ञायत इति । 'कौक्षयज्योतिषैक्योपदेशश्च फलाय तदात्मकत्वानुसन्धानविधिरिति न कश्चिद्दोषः । कौक्षयज्योतिषश्च तदात्मकत्वं भगवता स्वयमेवोक्तम्५"अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः" इति ॥ छन्दोभिधानान्नेतिचेन्न तथा चेतोर्पणनिगमा
त्तथाहि दर्शनम्। १।१॥२६॥ __पूर्वस्मिन्वाक्ये "गायत्री वा इदं सर्वम्" इति गायत्रयाख्यं छन्दोऽभिधाय ७"तदेतदृचाऽभ्यनूक्तम्" इत्युदाहृताया:"तावानस्य महिमा" इत्यस्या ऋचोऽपि छन्दोविषयत्वान्नात्र परमपुरुषाभिधानमिति चेत्१. कौशेयकज्योतिष. पा॥
५. गी. १५-१ ४॥ ६. छा. ३-१२-१॥ २. ब्रह्मेति प्राप्ते प्रचक्ष्महे. पा॥
७. छा.३.१२-५ ॥ ३. छा.३-१२-६॥ ४. छा. ३-१३-७॥ ८. छा, ३.१२.६॥
For Private And Personal Use Only