________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
--(श्रीवेदान्तदीपे प्राणाधिकरणम् ॥ ९॥)..
अत एव प्राणः। ॥१॥२४॥ छान्दोग्ये १"प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता"इति प्रस्तुत्य,१"कतमा सा देयतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्यज्जिहते सैषा देवता प्रस्तावमन्वायत्ता" इत्यत्र निखिलजगत्का. रणतया प्राणशब्दनिर्दिष्टः किं प्रसिद्धः प्राणः ? उतोक्तलक्षणं ब्रह्मेति संशयः । प्रसिद्धप्राण इति पूर्वपक्षः । कुतः? सर्वस्य जगतः प्राणायत्तस्थितिदर्शनात् स एव निखिलजगदेककारणतया निर्देशमहतीति । राद्धान्तस्तु-शिलाकाष्ठादिवचेतनेषु चेतनस्वरूपेषु च प्राणायत्तस्थित्यभावात्, १"सर्वाणि ह वा इमानि भूतानि' इति प्रसिद्धवनिर्देशादेव हेतोः प्राणशब्दनिर्दिष्टं परमेव ब्रह्म । सूत्रमपि व्याख्यातम् ॥२४॥
इति श्रीवेदान्तदीपे प्राणाधिकरणम् ॥ ९॥
-...(श्रीशारीरकमीमांसाभाष्ये ज्योतिरधिकरणम् ॥१०॥)....
अतः परं जगत्कारणत्वव्याप्तेन येनकेनापि निरतिशयोत्कृष्टगुणेन जुष्टं ज्योतिरिन्द्रादिशब्दैरर्थान्तरप्रसिद्धैरप्यभिधीयमानं परं ब्रह्मैवेत्यभिधीयते-ज्योतिश्चरणाभिधानात्-इत्यादिना
ज्योतिश्चरणाभिधानात्। १।१॥२५॥
इदमाम्नायते छान्दोग्ये २“अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः" इति । तत्र संशयः-किमयं ज्योतिश्शब्देन निर्दिष्टो निरतिशयदीप्तियुक्तोऽर्थः प्रसिद्धयादित्यादिज्योतिरेव कारणभूतं ब्रह्म, उत समस्तचिदचिद्वस्तुजातविसजातीयः परमकारणभूतोऽ१. छा. १-११-४,७॥ । २. छा. ३.१३-७॥
For Private And Personal Use Only