SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्राणाधिकरणम् पा. १.] २१३ परिहारस्तु - शिलाकाष्ठादिषु चेतनस्वरूपे च तदभावात् "सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते" इति नोपपद्यत इति । अतः प्राणयति सर्वाणि भूतानीति कृत्वा परं ब्रह्मैव प्राणशब्देनाभिधीयते । अतः प्रसिद्धाकाशप्राणादेरन्यदेव निखिलजगदेककारणमपहतपाप्मत्वसार्वज्ञयसत्यसङ्कल्पत्वाद्यनन्तकल्याणगुणगणं परं ब्रह्मैवाकाशप्राणादिशब्दाभिधेयमिति सिद्धम् ॥ २४ ॥ इति श्री शारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥ ९ ॥ क Acharya Shri Kailassagarsuri Gyanmandir श्रीवेदान्तसारे आकाशाधि करणं प्राणाधिकरणञ्च ॥ ८ ॥ ९ ॥ J... आकाशस्तल्लिङ्गात्। १ । १ । २३ ॥ अत एव प्राणः । १॥ १२४ ॥ ३" सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति” १" सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमेवाभ्युजिहते" इत्यादी, ४" सदेव सोम्येदमग्र आसीत्" इत्यादिना सामान्येन निर्दिष्टस्य जगत्कारणस्य भूताकाशप्राणसहचारिजीववाचिशब्दाभ्यां विशेष निर्णयशङ्कायां ?" सर्वाणि ह वा इमानि भूतानि” इति प्रसिद्धवन्निर्दिश्यमानात् जगत्कारणत्वादिलिङ्गात् भूताकाशजीवाभ्याम् अर्थान्तरभूतः परमपुरुष एवात्र आकाशप्राणशब्दनिर्दिष्ट इति निश्चीयते । तत्प्रसिद्धिस्तु - बहुभवनरूपेक्षणानवधिकातिशयानन्दजीवानन्दहेतुत्वविज्ञानमयविलक्षणत्वनिखिलभुवनभयाभयहेतु त्वसर्वलोक सर्वकामेशत्व सर्वपाप्मोदयाप्राकृतस्वासाधारणरूपविशिष्टस्य रविकरविकसितपुण्डरीकनयनस्य सर्वेशस्य सत्यसङ्कल्पस्य करणाधिपाधिपस्य परमपुरुषस्यैव निखिलजगदेककारणत्वादिति स एव आकाशप्राणशब्दाभ्यां जगत्कारणत्वेनाभिधीयत इति निर्णयो युक्त एव ॥ २३ ॥ २४ ॥ इति श्रीवेदान्तसारे आकाशाधिकरणं प्राणाधिकरणञ्च ॥ ९ ॥ १. छा. १-११-५॥ २. प्राणशब्द. पा॥ ३. छा. १-९-१॥ ४. छा. ६-२-१॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy