SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २१२ वेदान्तदीपे [अ. १. छान्दोग्ये १" अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति” इत्यत्र आकाशशब्द निर्दिष्टं जगत्कारणं किं प्रसिद्धाकाशः, उत समस्तचिदचिद्वस्तुविलक्षणं ब्रह्मेति संशयः । प्रसिद्धाकाश इति पूर्वः पक्षः । कुतः ? आकाशशब्दस्य लोके तत्रैव व्युत्पत्तेः, २" यतो वा इमानि भूतानि” इत्यादिसामान्यलक्षणस्य सदादिशब्दानामपि साधारणत्वेन १ " आकाशादेव समुत्पद्यन्ते " इति विशेषे पर्यवसानात्, ईक्षणादयोऽपि आकाश एव जगत्कारणमिति निश्चिते सति गौणा वर्णनीया इति । राद्धान्तस्तु - १ " सर्वाणि ह वा इमानि भूतानि ” इति प्रसिद्धवन्निर्देशात्, प्रसिद्धेश्चेक्षापूर्वकत्वात् चिदचिद्वस्तुविलक्षणं सर्वशं ब्रह्माकाशशब्दनिर्दिष्टमिति । सूत्रार्थस्तु आकाशशब्दनिर्दिष्टं परमेव ब्रह्म, प्रसिद्धवन्निर्दिश्यमानात् जगत्कारणत्वादिलिङ्गात् ॥ २३ ॥ इति श्रीवेदान्तदीपे आकाशाधिकरणम् ॥ ८ ॥ ( श्री शारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥ ९ ॥ ) → १. छा. १-९-१॥ .*. www.kobatirth.org अत एव प्राणः । १ । १ । २४ ॥ इदमान्नायते छान्दोग्ये – ३" प्रस्तोतर्या देवता प्रस्तावमन्वायता" इति प्रस्तुत्य ३ " कतमा सा देवतेति प्राण इति होवाच सर्वाणि हवा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत् " - इति ।। aa प्राणशब्दोऽप्याकाशशब्दवत्यसिद्धप्राणव्यतिरिक्त परस्मिन्नेव ब्रह्मणि वर्तते, तदसाधारणनिखिलजगत्प्रवेशनिष्क्रमणादिलिङ्गात्मसिद्धवनिर्दिष्टात् । अधिकाशङ्का तु — कृत्स्नस्य भूतजातस्य प्राणाधीन - स्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्ध एव प्राणी जगत्कारणतया निर्देशमईति — इति ॥ २. भृ. १- अनु ॥ Acharya Shri Kailassagarsuri Gyanmandir ३. छा. १-११-४, ५॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy