________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.] भाकाशाधिकरणम्
२११ विशेषमभिदधानेन १"तदैक्षत बहु स्यां प्रजायेय" २"सोऽकामयत। बहु स्यां प्रजायेय" इत्यादिश्वाक्यशेषावधारितसार्वज्ञयसत्यसङ्कल्पत्वादिविशिष्टापूर्वार्थप्रतिपादनसमर्थवाक्यार्थान्यथाकरणं न प्रमाणपदवीमधिरोहति । एवमपूर्वानन्तविशेषणविशिष्टापूर्वार्थप्रतिपादनसमर्थानेकवाक्यगतिसामान्य चैकेनानुवादस्वरूपेणान्यथा कर्तुं न शक्यते । यत्त्वात्मशब्दश्चेतनैकान्तो न भवति, 'मृदात्मको घटः' इत्यादिदर्शनादित्युक्तम् । तत्रोच्यते यद्यपि चेतनादन्यत्रापि कचिदात्मशब्दः प्रयुज्यते ; तथापि शरीरमतिसम्बन्धिन्यात्मशब्दस्य प्रयोगप्राचुर्यात्४ "आत्मा वा इदमेक एवाग्र आसीत्"५"आत्मन आकाशस्सम्भूतः" इत्यादिषु शरीरप्रतिसम्बन्धिचेतन एव प्रतीयते । यथा गोशब्दस्यानेकार्थवाचित्वेऽपि प्रयोगप्राचुर्यात्सास्नादिमानेव स्वतः प्रतीयते ; अर्थान्तरप्रतीतिस्तु तत्तदसाधारणनिर्देशापेक्षा; तथा स्वतः प्राप्तं शरीरपतिसम्बन्धिचेतनाभिधानमेव४ स ईक्षत लोकान्नु सृजा इति"२ "सोऽकामयताबहु स्यां प्रजायेय" इत्यादितत्तद्वाक्यविशेषा एव स्थिरीकुर्वन्ति । एवं वाक्यशेषावधारितानन्यसाधारणानेकापूर्वार्थविशिष्टं निखिलजगदेककारण६'सदेव सोम्य" इत्यादिवाक्यसिद्धं ब्रह्मैवाकाशशब्देन प्रसिद्धवत् ७"सर्वाणि ह वा इमानि भूतानि" इत्यादिवाक्येन निर्दिश्यत इति सिद्धम् ॥ २३॥
इति श्रीशारीरकमीमांसाभाष्ये आकाशाधिकरणम् ।। ८ ।। .-..(श्रीवेदान्तदीपे आकाशाधिकरणम् )....आकाशस्तल्लिङ्गात् । १।११२३॥
१. छा. ६-२-३॥ २. ते. आन. ६॥ ५. ते. आन. १-२॥ ३. वाक्यविशेष. पा॥४, ऐतरेय. १-१-१॥ ६. छां. ६-२-१॥ ७. छा.१-९-१॥
- आकाशाधिकरणम्प्राणाधिकरणञ्चैकत्रैव व्याख्यातम् ; अतो वेदान्तसारोऽत्र न निवेशित इति ज्ञेयम् ॥
For Private And Personal Use Only