________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१० शारीरकमीमांसाभाष्ये
[अ. १. प्रभवाप्ययादिश्रवणात्तदेव हि कारणं ब्रह्मेति निश्चितम् । यत एवं प्रसिद्धाकाशादनतिरिक्तं ब्रह्म, अत एव च १" यदेष आकाश आनन्दो न स्यात् " २" आकाशो ह वै नामरूपयोर्निर्वहिता" इत्येवमादिनिर्देशाऽप्युपपन्नतरः। अतः प्रसिद्धाकाशादनतिरिक्तं ब्रह्मेति ॥
(सिद्धान्तः)-..एवं प्राप्से ब्रुमः-आकाशस्तल्लिङ्गात्-आकाशशब्दाभिधेयः प्रसिद्धाकाशादचेतनादर्थान्तरभूतो यथोक्तलक्षणः परमात्मैवाकुतः ? तल्लिङ्गात्निखिलजगदेककारणत्वम् , सर्वस्माज्ज्यायस्त्वम् , परायणत्वम् इत्यादीनि परमात्मलिङ्गान्युपलभ्यन्ते । निखिलकारणत्वं ह्यचिद्वस्तुनः प्रसिद्धाकाशशब्दाभिधेयस्य नोपपद्यते, चेतनवस्तुनस्तत्कार्यत्वासम्भवात् । परायणत्वं च चेतनानां परमप्राप्यत्वम् । तच्चाचेतनस्य हेयस्य सकलपुरुषार्थविरोधिनो न सम्भवति । सर्वस्माज्ज्यायस्त्वं च निरुपाधिक सर्वैः कल्याणगुणैस्सर्वेभ्यो निरतिशयोत्कर्षः । तदप्यचितो नोपपद्यते ॥
यदुक्तं जगत्कारणविशेषाकाङ्क्षायामाकाशशब्देन विशेषसमर्पणादन्यत्सर्व तदनुरूपमेव वर्णनीयमिति , तदयुक्तम् , ४" सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते"इति प्रसिद्धवनिर्देशात् । प्रसिद्धवनिर्देशो हि प्रमाणान्तरप्राप्तिमपेक्षते । प्रमाणाान्तराणि च ५“सदेव सोम्येदमग्र आसीत्" इत्येवमादीन्येव वाक्यानि । तानि च यथोदितप्रकारेणैव ब्रह्म प्रतिपादयन्तीति तत्प्रतिपादितं ब्रह्माकाशशब्देन प्रसिद्धवग्निदिश्यते । सम्भवति च परस्य ब्रह्मणः ६प्रकाशकत्वादाकाशशब्दाभिधेयत्वम्-आकाशते, आकाशयति च--इति । किश्च अनेनाकाशशब्देन विशेषसमर्पणक्षमेणापि चेतनांशं प्रत्यसम्भावितकारणभावमचेतन१. ते. आन, ७-अनु॥
५, छा. ६-२-२॥ ३. निखिलजगदेककारणवं. पा॥ ६. प्रकाशवात् , पा॥
४. छा. १-९-१॥
२. छा. ८-१४-१॥
For Private And Personal Use Only