________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
आकाशाधिकरणम्.
२०९
उतोक्तलक्षणमेव ब्रह्म - इति । किं प्राप्तम् । प्रसिद्धाकाश इति, कुतः ? शब्दैकसमधिगम्ये वस्तुनि य एवार्थो व्युत्पत्तिसिद्धश्शब्देन प्रतीयतेस एव ग्रहीतव्यः । अतः प्रसिद्धाकाश एव चराचरभूतजातस्य कृत्स्नस्य कारणम् । अतस्तस्मादनतिरिक्तं ब्रह्म । नन्वीक्षापूर्वक सृष्ट्यादिभि रचेतनाज्जीवाच्च व्यतिरिक्तं ब्रह्मेत्युक्तम् । सत्यमुक्तम्, अयुक्तं तु तत् । तथाहि १" यतो वा इमानि भूतानि जायन्ते.... तद्ब्रह्म" इत्युक्ते कुत इमानि भूतानि जायन्त इत्यादिविशेषापेक्षायां २" सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इत्यादिना विशेषप्रतीतेः जगज्जन्मादिकारणमाकाश एवेति निश्चिते सति ३" सदेव सोम्येदमग्र आसीत् " इत्यादिष्वपि सदादिशब्दात्साधारणाकारास्तमेव विशेषमाकाशमभिदधति । ४" आत्मा वा इदमेक एवाग्र आसीत्" इत्यादिष्वात्मशब्दोऽपि तत्रैव वर्तते । तस्यापि हि चेतनैकान्तत्वं न सम्भवति ; यथा ' मृदात्मको घट:' इति । आनोतीत्यात्मेति व्युत्पच्या सुतरामाकाशेऽध्यात्मशब्दो वर्तते । अत एवमाकाश एव कारणं ब्रह्मेति निश्चिते सतीक्षणादयस्तदनुगुणा गौणा वर्णनीयाः । यदि हि साधारणशब्दैरेव सदादिभिः कारणमभ्यधायिष्यत ; ईक्षणाद्यर्थानुरोधेन चेतनविशेष एव कारणमिति निरचेष्यत । आकाशशब्देन तु विशेष एव निश्चित इति नार्थखाभाव्यान्निर्णेतव्यमस्ति । ननु " आत्मन आकाशस्सम्भूतः " इत्याकाशस्यापि कार्यत्वं प्रतीयते । सत्यम्, सर्वेषामेवाकाशवाय्वादीनां सूक्ष्मावस्था स्थूलावस्था चेत्यवस्थाद्वयमस्ति । तत्राकाशस्य सूक्ष्मावस्था कारणम् । ६स्थूलावस्था तु कार्यम् । ५" आत्मन आकाशस्सम्भूतः इति स्वस्मादेव सूक्ष्मरूपात्स्वयं स्थूलरूपस्सम्भूत इत्यर्थः । २" सर्वाणि हवा इमानि भूतान्याकाशादेव समुत्पद्यन्ते" इति सर्वस्य जगत आकाशादेव
**
१. तै. भृ. १, अनु।। २. छा. १-९-१॥ ॥ ३. छा. ६-२-१॥ ४. ऐतरेये, १-१-१ ॥ |
27
Acharya Shri Kailassagarsuri Gyanmandir
तै. आन. १-२ ॥
५.
६. स्थूलावस्था कार्यम्. पा॥
For Private And Personal Use Only