SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] ज्योतिरधिकरणम् प्रसिद्धेनैक्यावगमात्, स्ववाक्ये तदतिरिक्तपरब्रह्मासाधारणलिङ्गादर्शनाश्च । राधान्तस्तु-प्रसिद्धज्योतिषोऽन्यदेव परं ब्रह्म इह निरतिशयदीप्तियुक्तं ज्योतिश्शब्दनिर्दिष्टम् ,कुतः,१"पादोस्य सर्वाभूतानि । त्रिपादस्यामृतन्दिवि"इति पूर्ववाक्ये घुसम्बन्धितया निर्दिष्टस्यैव चतुष्पदो ब्रह्मणः २" अथ यदतः परो दिवो ज्योतिः" इत्यत्र प्रत्यभिज्ञानात् । तश्च परमेव ब्रह्मेति विज्ञातम् , सर्वेषां भूतानां तस्य पादत्वेन व्यपदेशात् । एवं परब्रह्मत्वे निश्चिते कौक्षेपज्योतिषः तदात्मकत्वानुसन्धान फलायोपदिश्यत इति ज्ञायते।सूत्रार्थस्तु-ज्योतिश्शब्दनिर्दिष्टं परं ब्रह्म; अस्य ज्योतिषः पूर्ववाक्ये सर्वभूतचरणत्वाभिधानात् । सर्वभूतपादत्वञ्च परस्यैव ब्रह्मण उपपद्यते ॥२५॥ छन्दोभिधानान्नेतिचेन्न तथा चेतोर्पणनिगमात्तथा हि दर्शनम्।१।१।२६॥ ३"गायत्री वा इदं सर्वम्" इति गायत्र्याख्यच्छन्दसः प्रकृतत्वात्,सर्वभूतपादत्वेन गायच्या एवाभिधानान ब्रह्मेति चेत्-नैतत्,तथा चेतोर्पणनिगमात् गायत्री यथा भवति, तथा ब्रह्मणि चेतोर्पणोपदेशात् । गायत्रीसादृश्यं चतुपात्त्वं ब्रह्मण्यनुसन्धेयमित्युपदिश्यते, गायत्र्यास्सर्वात्मकत्वानुपपत्तेरित्यर्थः । तथाहि दर्शनम्-तथा ह्यन्यत्रापि अच्छन्दस एव सादृश्याच्छन्दश्शब्देनाभिधानं दृश्यते ४" ते वा एते पञ्चान्ये पञ्चान्ये दश सम्पद्यन्ते" इत्यारभ्य ४" सैषा विराडनात् ” इति ॥२६॥ भूतादिपादव्यपदेशोपपत्तेश्चैवम्।१।१॥२७॥ भूतपृथिवीशरीरहृदयानि निर्दिश्य ५ "सैषा चतुष्पदा" इति भूतादीनां पादत्वव्यपदेशश्च ब्रह्मण्येवोपपद्यत इति ब्रह्मैव गायत्रीशब्दनिर्दिष्टमिति गम्यते॥ उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्य विरोधात्। १।१॥२८॥ १. छा, ३. १२.६॥ २. छा. ३.१३. ७॥ ३. छा. ३, १२. १॥ ४. छा. ४. ३. ८॥ ५. छा. ३. १२. ५॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy