________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
अन्तरधिकरणम्.
भेदव्यपदेशाच्चान्यः । १।१।२२॥
१य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयति स त आत्माऽन्तर्याम्यमृत इत्यधिदैवतम् । यश्वक्षुषि तिष्ठन् इत्यध्यात्मम् । यस्सर्वेषु लोकेषु तिष्ठन्नित्यधिलोकम् । यस्सर्वेषु भूतेषु तिष्ठत्रित्यभूितम् । यस्सर्वेषु वेदेषु तिष्ठन्नित्यधिवेदम् । यस्सर्वेषु यज्ञेषु तिष्ठन्नित्यधियज्ञम्" इत्यन्तर्यामिब्राह्मणे ; सुबालोपनिषदि च २' यः पृथिवीमन्तरे सञ्चरन्” इत्यारभ्य, "योऽव्यक्तमन्तरे सञ्चरन् योऽक्षरमन्तरे सञ्चरन् यो मृत्युमन्तरे सञ्चरन् यस्य मृत्युश्शरीरम् यं मृत्युर्न वेद एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः " इति सर्वदेव सर्वलोकसर्वभूतसर्ववेदसर्वयज्ञसर्वात्मोपरिवर्तमानतया तत्तच्छरीरतया तत्तदन्तरात्मतया तत्तदवेद्यतया तत्तन्नियन्तृतया चैभ्यस्सर्वेभ्यः भेदव्यपदेशाच्च, अयमपहतपाप्मा नारायणःप्रधानात् प्रत्यगात्मनश्च अर्थान्तरभूतो निखिलजगदेककारणमिति सिद्धम्॥ इति वेदान्तसारे अन्तरधिकरणम् || ७ ||
• ( वेदान्तदीपे अन्तरधिकरणम् ॥ ७ ॥ ) -
अन्तस्तद्धर्मोपदेशात् । १।१।२१ ॥
छान्दोग्ये ३ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" ४" य एषोऽन्तरक्षिणि पुरुषो दृश्यते" इत्यक्ष्यादित्याधारतया श्रूयमाणः पुरुषः किं जी - वविशेषः, उत परमपुरुष इति संशयः। जीवविशेष इति पूर्वः पक्षः कुतः ? सशरीरत्वात् । शरीरसंयोगो हि कर्मवश्यस्य जीवस्य स्वकर्मफलभोगायेति । राजान्तस्तु – ५" स एष सर्वेभ्यः पाप्मभ्य उदितः" इत्यादिना अपहतपाप्मत्वपूर्वक - सर्वलोक कामेशत्वोपदेशात् । तेषां च जीवेष्वसम्भवात्, अयमक्ष्यादित्याधारः पुरुषोत्तम एव । स्वासाधारणविलक्षणरूपवत्त्वं च ज्ञानबलैश्वर्यादिकल्याणगुणवत् तस्य सम्भवति । श्रूयते च तद्रूपस्याप्राकृतत्वम् ६" आदित्यवर्णं तमसस्तु पारे" इत्यादौ । सुत्रार्थस्तु – आदित्याद्यन्तश्श्रूयमाणः पुरुषः परं ब्रह्म । ७तदसाधारणादपहतपाप्मत्वादिधर्मोपदेशात् ॥ २१ ॥
१. बृ. ५. अ. ७. ख ९ ।।
२. सुबाल. ७ ख ।। ३. छा. १-६-६॥ ४. छा. १-७-५॥
Acharya Shri Kailassagarsuri Gyanmandir
५. छा, १६.७॥
६. पुरुषसू॥
७. तदसाधारणापहतपाप्म. पा।।
For Private And Personal Use Only
२०७