________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( वेदान्तसारे अन्तरधिकरणम् ॥ ७ ॥ ---
)
Acharya Shri Kailassagarsuri Gyanmandir
अन्तस्तद्धर्मोपदेशात् । १।१।२१॥
?
',
अयं जगत्कारणभूतः विपश्चिदानन्दमयः कश्चिदुपचितपुण्यविशेषो जीवविशेषः देहयोगाद्विज्ञायते, नायं परमात्मेति नाराङ्कनीयम् ; १ " य एषोऽन्तरादित्ये हिरण्मयः पुरुषः" इत्यादौ श्रूयमाणः पुरुषाकारः परमात्मैव । कुतः तद्धर्मोपदेशात्, २" स एष सर्वेषां लोकानामीशः सर्वेषां कामानाम् " ३" तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः" इति निरुपाधिकसर्वलोकसर्वकामेशत्वं स्वत एवाकर्मवश्यत्वं च प्रत्यगात्मनोऽर्थान्तरभूतस्य हि परमपुरुषस्यैव धर्मः, ४" वेदाहमेतं पुरुषं महान्तम् | आदित्यवर्णं तमसः परस्तात्" इत्यादिषु त्रिगुणात्मक प्रकृत्यनन्तर्गताप्राकृतवासाधारणरूपवत्त्वं च ज्ञानादिगुणवत्तस्यैवहि श्रूयते ; ज्ञानादयोऽपि ५ " सत्यं ज्ञानमनन्तं ब्रह्म ” ६'यस्सर्वज्ञस्सर्ववित्"७"पराSस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" इत्यादिषु श्रुतत्वात् तस्य गुणा विज्ञायन्ते । तथा "आदित्यवर्णं तमसः परस्तात्" इत्यादिषु अप्राकृतखासाधारणरूपश्रवणात् तद्वत्ता च विज्ञायते । तदेतद्वाक्यकाराश्चाह— "हिरण्मयः पुरुषो दृश्यते" इति 'प्राज्ञस्सर्वान्तरस्स्यात् लोककामेशोपदेशात् तथोदयात्पानाम्' इत्युक्त्वा तद्रूपस्य कार्यत्वं मायामयत्वं वा इति विचार्य "स्थापं कृतकमनुग्रहार्थ तच्चेतसामैश्वर्यात्" इति निरसनीयं मतमुपन्यस्य, "रूपं वातीन्द्रियम् अन्तःकरणप्रत्यक्ष निर्देशात्" इति । व्याख्यातं च द्रमिंडा - चायैः - "नवा मायामात्रम् अञ्जसैव विश्वसृजो रूपम्, तत्तु न चक्षुषा ग्राह्यम्, मनसा त्वकलुषेण साधनान्तरवता गृह्यते, "न चक्षुषा गृह्यते नापि वाचा, मनसा तु विशुद्धेन” इति श्रुतेः नह्यरूपाया देवतायाः रूपमुपदिश्यते; यथाभूतवादि हि शास्त्रम् ; यथा "माहारजतं वासः" "वेदाहमेतं पुरुषं महान्तम् | आदित्यवर्णम्" इति प्रकरणान्तरनिर्देशात्” इति । 'साक्षिण' इति 'हिरण्मय' इति रूपसामान्याच्चन्द्रमुखवत्" इतिच वाक्यम् । तच्च व्याख्यातं तैरेव "नमयडत्र विकारमादाय प्रयुज्यते, अनारभ्यत्वादात्मनः" इत्यादिना । अतः प्रधानात् प्रत्यगात्मनश्चार्थान्तरभूतो निरुपाधिकविपश्चिदनवधि कातिशयानन्दोऽप्राकृतस्वासाधारणदिव्यरूपः पुरुषोत्तमः परं ब्रह्म जगत्कारणमिति वेदान्तैः प्रतिपाद्यत इति निरवद्यम् ॥ २१ ॥
"
६. मु. १-१-९॥
१. छा. १-६-६ ॥ २॥ ३. छा.१-६-७॥ ४. यजु. आरण. ३. १३. पुरुषसू ।। ५. तै. आन. १ || | आरण. ३.१३. पुरुषम् ॥
For Private And Personal Use Only
७. श्वे, ६-८॥८. यजु.
९. अक्षिणी. पा