SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] अन्तरधिकरणम्. २०५ मपि मायाशब्दं नैखण्टुका अधीयते । आह च भगवान् पराशरः१" समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः। तद्विश्वरूपवैरूप्यं रूपमन्यदरेमहत् ॥ समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतिर्यमनुष्याख्याचेष्टावन्ति स्वलीलया। जगतामुपकाराय न सा कमनिमित्तजा"..इति;महाभारते चावताररूपस्याप्यप्राकृतत्वमुच्यते-२"न भूतसङ्घसंस्थानो देहोऽस्य परमात्मनः" इति। अतः परस्यैव ब्रह्मण एवंरूपरूपवत्त्वादयमपि तस्यैव धर्मः । अस आदित्यमण्डलाक्ष्यधिकरणः आदित्यादिजीवव्यतिरिक्तः परमात्मैव ॥ २१ ॥ भेदव्यपदेशाच्चान्यः।१।१॥२२॥ आदित्यादिजीवेभ्यो भेदो व्यपदिश्यतेऽस्य परमात्मनः-३"य आदित्ये तिष्ठन्नादित्यादन्तरो थमादित्यो न वेद यस्यादित्यश्शरीरं य आदित्यमन्तरो यमयति" ४" य आत्मनि तिष्ठनात्मनोऽन्तरो यमात्मा न वेद यस्याऽत्मा शरीरं य आत्मानमन्तरो यमयति" ५“योऽक्षरमन्तरे सञ्चरन्यस्याक्षरं शरीरं यमक्षरं न वेद यो मृत्युमन्तरे सञ्चरन्यस्य मृत्युश्शरीरं यं मृत्युनं वेद एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः" इति चास्यापहतपाप्मनः परमात्मनस्सर्वान् जीवान् शरीरत्वेन व्यपदिश्य तेषामन्तरात्मत्वेनैनं व्यपदिशति । अतस्सर्वेभ्यो हिरण्यगर्भादिजीवेभ्योऽन्य एव परमात्मेति सिद्धम् ।। २२ ॥ ___ इति श्रीशारीरकमीमांसाभाष्ये अन्तरधिकरणम् ॥ ७ ॥ १. वि. पु. ६-७-७०॥ २. महाभारते, उद्योगपणि। ३. १. ५-७-९॥ ४. वृ. ५-७-२२॥ ५ सुबाल. ७-खा। ६. इति चास्यापहतपाप्मन: सर्वान् मीवान्। For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy